________________
मूलिकालात्रं । वृत्तं-"खपवित्रमूलिकावर्गमर्दिते तदुदकस्य शुभधारा । बिम्बेधिवाससमये यच्छतु सौख्यानि निपतन्ती ॥१॥” ततः कुष्टादिप्रथमाष्टकवर्गस्य अष्टमं लान। वृत्तं यथा-"नानाकुष्टाद्यौषधिसंमिश्रे तद्युतं पतन्नीरम् । बिम्बे कृतसन्मन्त्रं कर्मोघं हन्तु भव्यानाम् ॥१॥" ततो नवमं मेदादिद्वितीयाष्टकवर्गस्लानं ।वृत्तम् -"मेदाद्यौषधिभेदोपरोष्टवर्गः खमत्रपरिपूतः। जिनबिम्बोपरि निपतत् सिद्धिं विदधातु भव्यजने ॥१॥" इति नव स्लात्राणि। ततः सरिरुत्थाय गरुडमुद्रयामुक्ताशक्तिकमुद्रया परमेष्ठिमुद्रया वा प्रतिष्ठाप्यदेवताह्वान तदग्रतो भूत्वा ऊर्ध्वः सन् करोति । मन्त्रो यथा-ॐ नमोऽर्हत्परमेश्वराय चतुर्मुखपरमेष्ठिने त्रैलोक्यगताय अष्टदिग्भागकुमारीपरिपूजिताय देवाधिदेवाय दिव्यशरीराय त्रैलोक्यमहिताय आगच्छ २ खाहा । ततो दिक्पालाहानं संक्षेपेण करोति यथा-"इन्द्रमग्निं यमं चैव नैर्ऋतं वरुणं यथा।वायं कुबेरमीशानं नागं ब्रह्मा
णमेव च ॥१॥” मन्त्रो यथा-ॐ इन्द्राय सायुधाय सवाहनाय सपरिजनाय इह जिनेन्द्रस्थापने आगच्छ मरवाहा । एवमग्नये एवं दशानामपि दिकपालानामाह्वानमात्रमेव । ततो बिम्बोपरि पुष्पांजलिक्षेपः। वृत्तम्
"सर्वस्थिताय विबुधासुरपूजिताय सर्वात्मकाय विददीरितविष्टपाय । स्थाप्याय लोकनयनप्रमदप्रदाय पुष्पांजलिर्भवतु सर्वसमृद्धिहेतुः॥१॥" ततो दशमं हरिद्रादिसौषधिस्नात्रं । वृत्तं यथा-"सकलौषधिसंयुक्त्यात सुगन्धया घर्षितं सुगतिहेतोः। स्पयामि जैनबिम्ब मन्त्रिततन्नीरनिवहेन ॥१॥” ततो द्वितीयं सहदेव्यादिसौषधि एकादशं स्नात्रं । वृत्तं यथा-"सर्वामयदोषहरं सर्वप्रियकारकं च सर्वविदः । पूजाभिषेककाले
आ.दि.२७
Jain Education inte
For Private & Personal use only
Jainelibrary.eena