________________
आचारदिनकरः
विभागः२ तपोविधिः
॥३३४॥
शात् मनस्याहते तु दण्डकोचारवर्जिते सामायिके प्रत्याख्याने भन्ने भवतः तङ्गे प्रायश्चित्तविधिप्रक्रमोक्तं प्रायश्चित्तमाचरणीयं । तथा च । 'जिनार्चनगुरोः पूजा सिद्धान्तपठनं तथा । वैयावृत्यं मुनीनां च विम्बपुस्तकयोरपि ॥१॥ धर्मोपदेशश्रवणं व्याख्यानं धर्मशास्त्रकं । प्रमार्जनादि वा कार्य प्रतिपत्तिगुरोरपि ॥२॥ परमेष्ठिमन्त्रजापः स्तोत्रपाठोहतामपि । इत्यादिधर्मवैयग्र्यं सर्वमावश्यकं विदुः॥ ॥ मध्याह्वान्मध्यरात्रं च यावदेवसिकं विदुः । मध्यरात्राच मध्याहं यावत्कर्म च रात्रिकं ॥४॥' इत्याचार्यश्रीवर्धमानसूरिकते आचारदिनकरे उभयधर्मस्तम्भे षड्विधावश्यककीर्तनो नामाष्टत्रिंशत्तम उद्यः ॥ ३८ ॥ ग्रन्थानं २५००॥
एकोनत्रिंशत्तम उदयः। अथ तपोविधिरुच्यते ॥ सचायं । यहूरं यदुराराध्यं यच्च दूरे व्यवस्थितम् । तत्सर्व तपसा साध्यं तपो हि दरतिक्रमम् ॥१॥ ततः शिवकुमारवचरति मन्दिरस्थोपि यः स देवपरिषद्यपि युतिमहत्त्वविस्फूर्तिभृत् । कृशत्वकृशतापनोल्लसितकर्णकं काञ्चनं सुधातुषु विशिष्टतां नृपतिमौलितामेति च ॥२॥ ततः सकलकर्मभिर्द्विविधलब्धिकृनिश्चितं गृहे पुरि च दुर्भरोप्यहह वन्दिषेणो द्विजः। व्रते शमतपःपरः सुरनरैकवन्द्यो भवेद्रविज्वलनतापितः श्रयति दीप्तिमाद्यो घटः ॥३॥ यस्तपोविधिराम्नातो जिनैर्गीतार्थसाधुभिः। तं तथा कुर्वतां सन्तु मनोवाञ्छितसिद्धयः॥४॥ असत्यां दानशक्तौ च देहशक्तिमवेक्ष्य च । अनुष्ठेयं पुण्यवद्भिस्त
॥३३४॥
_Jain Education intern
For Private & Personal Use Only
O
ww.jainelibrary.org