________________
Jain Education Int
| मध्यांगुलीद्वयोर्वीकरणेन रौद्रदृष्ट्या तर्जनीमुद्रां दर्शयति । ततो वामकरण जलं गृहीत्वा रौद्रदृष्ट्या विम्बमाच्छोदयति । केषांचिन्मते स्नात्रकारा एव वामहस्तोदकेन प्रतिमामाच्छोदयन्ति । ततो गुरुर्विम्बस्य तिलकं पूजनं च स्नानकारकरात् कारयति, ततो गुरुर्बिम्बस्य मुद्गरमुद्रां दर्शयति, ततोऽक्षततन्दुलभृतं स्थालं ददाति, ततो वज्रमुद्रया गरुडमुद्रया विम्बस्य नेत्ररक्षां करोति, ततो बलिमन्त्रेण करामर्शेन बिम्बस्य सर्वशरीरे कवचं करोति । बलिमत्रो यथा — ॐ हाँ क्ष्व सर्वोपद्रवं बिम्बस्य रक्ष रक्ष स्वाहा, अनेनैव मन्त्रेण दशखपि दिक्षु त्रित्रिः पठनेन पुष्पाक्षतक्षेपेण दिग्बन्धः । ततः श्राद्धाः स्नात्रकारा वा बिम्बोपरि सणलाजकुलत्थयव कंगुमाषसर्षपरूपं सप्तधान्यकं क्षिपन्ति । सप्तधान्यक्षेपवृत्तम् - " सर्वोष - धीबहुल मंगलयुक्तिरूपं संप्रीणनाकर मपारशरीरिणां च । आदौ प्रभोः प्रतिनिधेरधिवासनायां सप्तान्नमस्तु | निहितं दुरितापहारि ॥ १ ॥” ततो गुरुर्जिनमुद्रया कलशमभिमन्त्रयति । मत्रो यथा - ॐ नमो यः सर्वशरीरावस्थिते महाभूते आगच्छ २ जलं गृहाण २ खाहा । ततः सर्वोषधिचंदनाद्यभिमन्त्रयति । मन्त्रो यथाॐ नमो यः सर्वशरीरावस्थिते महाभूते आगच्छ २ सर्वोषधिचंदनसमालंभनं गृहाण २ स्वाहा । समालभनं चार्चिक्यमुच्यते । ततः पुष्पाणि अभिमन्त्रयति । मन्त्रो यथा - ॐ नमो यः सर्वशरीरावस्थिते महाभूते आगच्छ २ सर्वतो मेदिनी पुष्पं गृहाण खाहा ॐ नमो यः बलिं दह २ महाभूते तेजोधिपते धुधु धूपं गृह्ण २ | खाहा । तत एभिरेव मन्त्रैर्बिम्बस्य जलसर्वोषधिचंदनपुष्पधू पोद्राहणपूजा क्रमात् कर्तव्या मनाक् २ ततो वि
For Private & Personal Use Only
www.jainelibrary.org