SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter णादौ २ भोजनादौ ३ इति तिस्रः । चैत्यपरिपाठ्यां भोजनानन्तरं च पञ्च ५ उभयकालं प्रतिक्रमणकरणे स समी ७ एवं गृहिणां चैत्यवन्दने विभाषा । सा चैत्यवन्दना त्रिविधा । यथा । 'नमुक्कारेण जहन्ना दंडयुगथुइजुअलमज्झमा नेया । संपुण्णा उक्कोसा विहिणा खलु वंदना तिविहा ॥ १ ॥ जघन्या नमस्कारेण जिना ग्रतः परमेष्ठिमन्त्रं पठेत् । एतावज्जघन्या चैत्यवन्दना पूर्यते । दण्डकस्तुतियुगलपाठात् मध्यमा । यथा । जिनाग्रे स्थापनाचार्या वा गत्वा । 'जिणठवणं सक्कत्थय चेइयथय साहुवंदणं चैव । पत्थुअजिणथयपढणं पत्थगाहा गुरुमणं ॥ १ ॥' व्याख्या । पूर्व अर्धसिंहनिषद्योपविष्टो मुखे वस्त्रिका वस्त्राञ्चलाञ्जलिश्लिष्टमुखो भणति इच्छा० भग० चैत्यवन्दना करउ । वरकनकशंखविद्रुममरकतघनसन्निभं विगयमोहं । सप्ततिशतं जिनानां सर्वामरपूजितं वंदे ॥ १ ॥ इत्यार्यापठनं । ततः शक्रस्तवपाठः । ततो जावंति चेहयाई इति गाथा - पठनं । ततः क्षमाश्रमणं दत्वा जावंति के० इति गाथापठनं । ततः नमोर्हत्सिद्ध० इत्युक्त्वा प्रस्तुतजिनस्तोत्रपाठः । ततो जयवीयराय इति गाथापठनं । तत आचार्योपाध्यायगुरुसाधुवन्दनं । इति मध्यमा चैत्यवन्दना संपूर्णा ॥ उत्कृष्टा यथा । 'जिणथय सक्कथय तह चेइयथयमवि जिणंदथुइ कहणं । चउवीसत्थय सङ्घा रिहाणययमेव ताण थुई ॥ १ ॥ सुअथय काउस्सग्गं सुयथुइकहणं तहेव सिद्धधयं । वेयावच्चगराण य उस्सग्गो ताण थुइकहणं ॥ २ ॥ पुणरवि सक्कत्थयं चिय चेइय साहूण थुइ जिणिदत्थयं । [ पत्थणं गाहा ] चेइय वंदणमिय भणिय मुक्कोसं ॥ ३ ॥' ऐर्यापथिकीं प्रतिक्रम्य प्रथमं इच्छाकारेण संदिसह भगवन् चैत्यवन्दनं करउं इत्यु For Private & Personal Use Only www.jainelibrary.org
SR No.600002
Book TitleAchar Dinkar Part-2
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year1923
Total Pages534
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy