________________
Jain Education Internat
दुस्सुमिणराईपायच्छित्तं चित्तविशोधनार्थं कायोत्सर्ग करोति शक्रस्तवं च पठति । ततो मुखवस्त्रिकां प्रतिलिख्य सामायिकदण्डकमुच्चार्य स्वाध्यायपर्यन्तं करोति । पुनः शुभध्यानेन रात्रिशेषमतिवाहयति । ततः प्रतिक्रमणवेलायां प्राभातिक प्रतिक्रमणं करोति । ततः पूर्ववत्सर्वं प्राभातिकं कर्म विदध्यात् । जाते पौषधपारणावसरे इच्छा० भगवन् पोसहपारणमुहपत्तिं पडिलेहेमि । मुखवस्त्रिकां प्रतिलिस्य क्षमा० द्वयपूर्वकं भणति भगवन् पोसहं पारउ भग० पोसहं पारियउ । मुखवस्त्रिकापिहितवदनो भून्यस्तशीर्षः पौषधपारणगाथाः पठति यथा - 'सागरचंदो कामो चंदवडिंसो सुदंसणो धन्नो । जेहिं पोसहपडिमा न खंडिया जीवि - यंतेवि ॥ १ ॥ जो गन्भवासभीओ तादुल्ललिओ महामुनी अभओ । उम्मुकमणिसुवन्नो पडिपुनं पोसहं | कुणइ || २ || पोसइमुहे भावे अनुहाइ खवेइ नत्थि संदेहो । छिंदइ नरतिरियगई इह भणियं पोसहं कुणइ ॥ ३ ॥ पोसह सामाइयसंठियस्स जीवस्स जाइ जो कालो । सो सफलो बोधवो सेसो संसारफलहोई ॥४॥ चक्कवत्तिभिदत्तं मुक्खो कालओ विक्खिओ । इच्चेअं पोसहस्सेव फलं बिंति महेसिणो ॥ ५ ॥ ततो नमस्कारं भणित्वा सामायिकपारणमुखवस्त्रिकां प्रतिलिख्य पूर्ववत्सामायिकं पारयति । ततः पोषधपारणके साधुषु सत्सु नियतमतिथिसंविभागो विधेय एव । इत्याहोरात्रिकपौषधविधिः ॥ सामायिकं च द्विघव्यंन्तं नमस्कारजापप्रतिक्रमणादिभिः पूरयेत् । केचित्स्थूलमतयः परमेष्ठिमन्रपञ्चशतीजपान्तं ब्रुवते । तदनन्तरं तत्पारयित्वा पुनः सामायिकं गृह्णीयादिति रूढिः । इत्यावश्यके सामायिकयोजना संपूर्णा ॥
For Private & Personal Use Only
w.jainelibrary.org