SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ आचारदिनकरः ॥ ३२२ ॥ Jain Education Int ओहीथंडिले पडिलेहेम । ततो वस्त्रकम्बलादि प्रतिलिस्य पुनः शुभध्यानेन तिष्ठति । संप्राप्तायां कालवेलायां चतुर्विंशतिस्थण्डिलानि प्रतिलेखयति उच्चारप्रस्रवणार्थं । ततस्तद्दिवसानुसारेण सांवत्सरिकं चातुर्मासिकं पाक्षिकं वा दैवसिकं वा प्रतिक्रमणं करोति । तदनन्तरं साधुविश्रामणां करोति ततः स्वाध्यायेन निशाप्रथमप्रहरमतिवाहयति । ततः शरीरचिन्तां कृत्वा ऐर्यापथिकीं प्रतिक्रम्य मुखवस्त्रिकां प्रतिलिख्य क्षमा० द्वयपूर्व भणति भग० राईसंथारए संदिसावेमि राईसंधारए ठाएमि इत्युक्त्वा शक्रस्तवं पठति । ततः संस्तारकं शरीरं च प्रमृज्य जानूपरि संस्तारकोत्तरपदं मीलयित्वा भूमौ संस्थाप्य । अणुजाणह निस्सीही नमो खमासमणाणं इत्युत्वा संस्तारकोपरि उपविशति । तत्र नमस्कारत्रयं भणित्वा त्रिवेलं चतुःशरणं च पठित्वा गाथात्रयं त्रिः पठति यथा । 'अणुजाणह परमगुरू गुरुगुणरयणेहि भूसियशरीरा । बहुपडिपुन्ना पो| रसि राईसंथारए ट्ठाएमि ॥ १ ॥ अणुजाणह संथारं वाहुवहाणेण वामपासेण । कुक्कुडपायपसारण अतरंतु पमज्जए भूमिं ॥ २ ॥ संकोडियसंडासा उवहंते य कायपडिलेहा । दवाईअणुओगं ऊसासनिरंभणा लोए ॥ ३ ॥' इति त्रिः पठित्वा संकोचितपाणिर्वामबाहुपधानो वामपार्श्वेन शेते । यद्वर्तनां करोति तदा संस्तारकं शरीरं च प्रतिलेखयेत् ॥ अथ शरीरचिन्तार्थमुत्तिष्ठति तदा शरीरचिन्तां कृत्वा ऐर्यापथिकीं प्रतिक्रम्य एकवेलं अणुजाणह प० इत्यादिगाथात्रयं पठति । पुनः शेते । सुप्तस्य चेन्निद्रा नायाति तदा शुभध्यानेन धर्मजाग करोति । ततो रजन्याः पश्चिमप्रहरे उत्थाय देहचिन्तादिविधाय ऐर्यापथिकीं प्रतिक्रम्य कुसुमि 1 For Private & Personal Use Only विभागः २ आवश्यकविधिः www.jainelibrary.org
SR No.600002
Book TitleAchar Dinkar Part-2
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year1923
Total Pages534
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy