________________
Jain Education Internation
स्थपात्रे प्राशुकं भुंक्ते । पञ्चसमितियुतः खगृहे गत्वा स्वयोगनिष्पन्नं प्राशुकं भुञ्जीत । पौषधशालायां वा पूर्व| निर्दिष्टखजनानीतं भिक्षाटनेन वा । ततो भोजनानन्तरमैर्यापथिकीं प्रतिक्रम्य शक्रस्तवं भणित्वा द्वादशावर्तवन्दनं दत्वा दिवसचरिमं त्रिविधाहारेण चतुर्विधाहारेण वा प्रत्याख्याति । यदि पुनः शरीरचिन्तार्थी तदा आत्मद्वितीयो भगवन् आवस्सी इत्युक्त्वा साधुवदुपयुक्तो निर्जीवे स्थण्डिले गत्वा विधिनोचारप्रश्रवणे विसृज्य पुनरपि विधिना पौषधागारमागत्य निस्सीही इत्युक्त्वा प्रविश्य ऐर्यापथिकीं प्रतिक्रम्य क्षमाश्रमणं दत्वा भणति इच्छा० भगवन् गमणागमणं आलोएमि आवस्सीकरीय पुर्वपच्छिम अवरदक्खिणदिसिहिं जा| इउ दिसालोयं करिय संडासए थंडिलं च पमज्जिय उच्चारपासवर्ण वोसरिय निस्सीहियं करिय पोसहसा - लाए पचिट्ठा। आवंत जंतेहिं जं खंडियं जं विराहियं तस्स मिच्छामि दुक्कडं । ततः खाध्यायेन शुभध्यानेन दिनमतिवाहयति यावत्प्रथमप्रहरः तदा च प्रतिलेखनावेलायां क्षमा० द्वयपूर्व भणति भग० पडिलेहणं संदिसावेमि पडि० करेमि इत्युक्त्वा मुखवस्त्रिकां प्रतिलिस्य पुनः क्षमा० पूर्व भणति भग० पोसहसालं पमजेमि । ततो मुखवस्त्रिकां प्रतिलिस्य पादपोंछनकं च । पुनः क्षमाश्रमणद्वयं दत्वा भणति भग० अंगपड़िलेहणं दिसावेमि अंगप० करेमि । भक्तार्थी स्थापनाचार्य प्रतिलिस्य पश्चात्परिधानं प्रतिलेखयति । ततः पौषधशालां प्रमृज्य अवकरमुद्धृत्य प्रतिलेखितं स्थापनाचार्य संस्थाप्य पुनः क्षमाश्रमणं दत्वा मुखवस्त्रिकां प्रतिलेखयति । ततः स्वाध्यायं करोति पूर्ववत् । ततः क्षमा० द्वयपूर्व भणति भग० ओहीथंडिले संदिसावेमि ।
For Private & Personal Use Only
ww.jainelibrary.org