________________
-R
आचारदिनकरः
विभागः२ आवश्यकविधिः
॥३२१॥
SCIOGLIERISHGAGA
पुनः क्षमा० द्वयेन भणति भग. अंगपडिलेहणं संदिसावेमि अंगपडिलेहणं करेमि इत्युक्त्वा खपरिधानं प्रतिलिख्य स्थापनाचार्य प्रतिलेखयति । पुनरिच्छाकारेण संदिसह भग० उपधिमुहपत्तिं पडिलेहेमि । मुखवस्त्रिका प्रतिलिख्य क्षमा० द्वयपूर्वकं भणति भग० उपधिं संदिसावउं उपधि पडिलेहउं इत्युक्त्वा वस्त्रकंबलादि प्रतिलेखयति । पुनः क्षमाश्रमणद्वयेन भणति भग० वसतिं संदिसावळ वसति पडिलेह इत्युक्त्वा वसतिं मात्रकादि प्रमार्जयति । पुनरैर्यापथिकी प्रतिक्रम्य क्षमा० द्वयपूर्व भणति भग० सज्झायं संदिसावेमि सज्झायं करेमि । ततः पश्चिमरात्रिकृतनमस्कारसहितप्रत्याख्यानः तदा स्वशत्या एकभक्तं निर्विकृतिकं आचाम्लं उपवासं वा प्रत्याख्याति । ततः परमेष्ठिमन्त्रं जपति पुस्तकादि वाचयति साधुभ्य आगमं वा शृणोति।। ततो जाते पादोनप्रहरे क्षमा० द्वयपूर्व भणति भग० पडिलेहणं संदिसावेमि पडि. करेमि । मुखवस्त्रिका प्रतिलिख्य सर्व वस्त्रपात्रोपकरणादि प्रतिलेखयेत् । ततो भग० आवस्सी इत्युक्त्वा निष्क्रम्य चैत्येषु देववन्दनं करोति । ततो यद्याहारग्राही भवति तदा प्रत्याख्याने पूर्णे इच्छाकारेण संदिसह भगवन् , पारणमुहपत्तिं पडिलेहेमि । मुखवस्त्रिका प्रतिलिख्य ततः क्षमाश्रमणं दत्वा भणति पारावेमि पोरसीए पुरिमड्डेण वा चउविहाहारेण वा तिविहाहारेण वा निविएण वा अंबिलेण वा एगासणेण वा पाणाहारउपवासेण वा पारावेमि जाव काइवेलातीए । ततः शक्रस्तवं पठति विंशतिगाथाषोडशगाथापर्यन्तं खाध्यायं करोति । ततः अन्नस्य यथासंभवं अतिथिसंविभागं विधाय मुखहस्तपादादि प्रतिलिख्य नमस्कारं पठित्वाऽरक्तदुष्टो गृह
RECORECARECOREGAON
॥३२१॥
Jan Education Interna
For Private & Personal Use Only
www.jainelibrary.org