________________
Jain Education Internati
भावः आलेपस्तस्मान्न दोष इति । गिहत्थसंसद्वेणं गृहस्थसंसृष्टात् गृहस्थेन संसृष्टात् अभ्यक्तात् विकृतिगतकृताद्वा ग्रहणे साधूनां न दोषः । एतदाकारपठनं श्राद्धानां प्रत्याख्याने अखण्डितसूत्रपाठार्थं । उक्खित्तविवेगेणं उत्क्षिप्तविवेकात् कस्मिंश्चिदपि विकृतिवर्जिते वस्तुनि विकृतिं वस्तु संस्थाप्य तदपनयने उत्क्षिप्तविवेकः । यदुक्तं । 'नवणीओगाहिमए अद्दव महिपिसियघयगुडे चैव । नव आगारा एसिं अद्वेव य सेसद्दवाणं ॥ १ ॥ नवनीतं उत्कथितं पक्कान्नं द्वयमप्यद्रवं पिण्डरूपं तथा दधि पिशितं मांसं घृतं गुडश्व एते सर्वेप्यद्रवा यदि भवन्ति वस्तुन उपरि तदा तानपनीय निर्विकृतिवस्तुग्रहणे न दोषः । अमी च सद्रवाचेद्रवन्ति तदापनयने तल्लेशस्थितौ विकृतिदोषः । तेषां निर्विकृतिक प्रत्याख्याने नवाकाराः शेषाणां द्रव्याणामसंसक्तानामष्टैवाकाराः उत्क्षिप्तविवेकवर्जनात् । परमखण्डितसूत्रतया पठनीयमेव । तस्मात् पारि० मह० सङ्घ० पूर्ववत् ॥ सूरे उगए अभत्ता पच्च० सूर्ये उगते अभक्तार्थ उपवासं प्रत्याख्यामि त्रिविधं चतुर्विधं वा आहारं अशनं १ खादिमं २ खादिमं ३ अशनं पानं ४ पूर्ववत् अन्न० सह० पारि० मह० सङ्घ० पूर्ववत् ॥ पाणस्स इत्यादि । लेवालेवेण वा अलेवालेवेण वा अच्छेण वा बहुलेण वा ससित्थेण वा असित्थेण वा ले| पालेपात् अन्नादिलेपसहितात् अलेपालेपात् निर्लेपात् अच्छात् निर्मलात् बहुलात् कलुषात् ससित्थात् सान्नकणात् असित्थाम् निरन्नकणात् । एतत्प्रत्याख्यानं केवलं साध्वर्थमेव नानाविधस्वभावप्राशुकजलपानात् गच्छान्तरेषु श्राद्धेष्वपि निर्दिश्यते । दिवसचरिमं भवचरिमं पच्च० दिवसचरिमं प्रत्याख्याहि दिवसो
For Private & Personal Use Only
www.jainelibrary.org