________________
आचार
दिनकरः
॥ ३१५ ॥
Jain Education Inter
वकश्राविकाणां गणस्य च समाधिवर्तनताच्छील्यस्य भावः सर्वसमाधिवर्तिता स एवाकारस्तस्मात् । स|र्वेषां समाधिकरणे व्रतभङ्गेपि न दोषः । सूरे उग्गए पुरिमदं पञ्च० सूर्ये उगते पूर्वार्ध दिनपूर्वप्रहरद्वयं प्रत्याख्यामि । चतुर्विधमप्याहारं अशनं ४ पूर्ववत् अन्न० सह० पच्छ० दिसा० पूर्ववत् । साहुवयणेणं साधुवच| नादिति ज्ञाते अज्ञातेपि काले गीतार्थसाध्वादेशात् । महत्तरागारेणं महत्तराकारादिति गच्छमुख्यश्राद्धमु ख्यपुर मुख्य विद्यागुणज्येष्ठनृपाद्यवग्रहान् । सङ्घ० पूर्ववत् । एकासणं पञ्च० एकाशनं प्रत्याख्याहि । द्विविधं त्रिविधं चतुर्विधं वा आहारं अशनं १ खादिमं २ खादिमं ३ अशनं पानं खादिमं खादिमं ४ पूर्ववत् अन्न० सह० पूर्ववत् । सागारियागारेणं सागारिकास्सहवासिनः प्रातिवेश्मिकाः शय्यातरा वा तेषां प्रार्थनारूप | आकारस्तस्मात् । आउंटणपसारणेणं आकुञ्चनप्रसारणात् आकुञ्चनं गात्राणां संकोचः प्रसारणं विस्तारणं समाहारद्वन्द्वस्तस्मात् । गुरुअब्भुट्ठाणेणं गुर्वभ्युत्थानात् गुरौ दृष्टे भुञ्जानस्याप्यासनत्यागात् । पारिट्ठावणियागारेणं पारिस्थापनिकाकारात् । अन्नादिपरित्यागः पारिष्टा पनिका तस्या आकारः अनुरोधस्तस्मात् । अन्नादिपारिष्टापनिकायां प्राणिवधादिदोषाः तन्निवारणार्थं भुञ्जानस्यापि न प्रत्याख्यानभङ्गः । मह० सङ्घ० पूर्ववत् । एकलट्ठाणं पञ्च० एकस्थानं एकाशनं प्रत्याख्याहि चतुर्विध० अशनं० पूर्ववत् । आकरव्याख्यानं पूर्वतत् । अन्न० सह० सागा० गुरु ० पारि० मह० सङ्घ० पूर्ववत् । अत्र आकुञ्चनप्रसारणं न विधेयं । आयंबिलं पच्च० आचाम्लं प्रत्याख्याहि अन्न० सह० पूर्ववत् । लेवालेवेणं लेपालेपात् लेपो दधिघृततैलादिनाभ्यङ्गः तेन सह आलेपः तल्लग्नस्थापितवस्तुनः स्निग्धी
For Private & Personal Use Only
विभागः २
आवश्यक
विधिः
॥ ३१५ ॥
www.jainelibrary.org