SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ कुहेडगाईयं । महुत्तपिप्पलि सुंठाई अणेगहा साइमं होई ॥१॥ दन्तवणं दन्तधावनं प्रसिद्धं । तंबोलं ताम्बूलं पञ्चसौगन्धिकं । चित्तं चित्रं नानाप्रकारं । तुलसीकुहेडकादि तुलसीग्रहणेन सर्वाण्यपि सुरभिकषायदूमपत्राणि । कुहेटकग्रहणे भर्भार्यकादि । मधु मधुयष्टी । पिप्पली पिंपली। सुंठाई शुण्ठ्यादि प्रसिद्धं । आदिशब्दात् त्रिफलात्रिकटुपूगलवङ्लाजातीफलप्रभृति सर्वमपि अपुष्टिकरं शुष्कं पुष्पपत्रफलादि । अणेगहा साइमं होइ अनेकधा खादिमं भवति खाद्यते वक्रसौरभप्रमोदार्थिभिरिति खादिमं । अन्नत्थणाभोगेणं ४ सहसागारेणं । अत्र आकारग्रहणं नियमभङ्गेपि अदोषार्थ । अनाभोगात् अन्यत्र सहसाकारात् अन्यत्र प्रत्याख्यामीति शेषः । आभोगः खचित्तावधानेन कर्तव्यकरणं । अनाभोगो वैपरीत्येन विस्मृत्यान्यकार्यव्याक्षेपेण कार्यकरणं तस्मात् । सहसाकार इति सहसौत्सुक्येन कार्यकरणं, अथवा स्वयमेव कार्योत्पत्तिः यथा| पवनाद्याहतं किंचिन्मुखे निपतति इति सहकारस्तस्मात् । पोरसियं पञ्चक्खाहि पौरुषीं यावत्प्रत्याख्याहि प्रहरं यावदित्यर्थः । प्रत्याख्यामि उद्गतेसूर्ये सूर्योदयादारभ्येत्यर्थः । चतुर्विधमप्याहारं अशनं ४ पूर्ववत् अन्न Rसह पूर्ववत् । प्रच्छन्नकालेणं प्रच्छन्नकालात् अभ्ररजश्छन्नसूर्यसंयोगे प्रच्छन्नकालः तत्र दिनप्रमाणं न ज्ञायते तस्मात् । दिसामोहेणं दिमोहात् पूर्वदक्षिणपश्चिमादिदिशामज्ञाने रविस्थितावज्ञातायां न कालपरिमाणज्ञानं । साहुवयणेणं साधुवचनात् यथा साधवः पादोनेपि प्रहरे अतिक्रान्ते 'भयवं बहुपडिपुन्ना पोरिसी साहवो उवत्ता होह' इति वचनात् । सबसमाहिवत्तियागारेणं सर्वसमाधिवर्तिताकारेण सर्वेषां साधुसाध्वीश्रा RECEMCASGADCHOCEROSCA-- NAGACASCACOCCA-SCANCA-MECRECEN आ.दि.५४ Jain Education Inter For Private & Personal Use Only |www.jainelibrary.org
SR No.600002
Book TitleAchar Dinkar Part-2
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year1923
Total Pages534
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy