________________
C
AMERSEASEACTOR
प्रतिष्ठाविधिरादिष्टः पूर्व श्रीचन्द्रसूरिभिः। संक्षिप्तो विस्तरेणायमागमार्थाद्वितन्यते ॥१॥ प्रतिष्ठाकार|यितहे प्रथम शान्तिक पौष्टिकं कुर्यात् । अतश्चश्रीचन्द्रमृरिप्रणीता प्रतिष्ठायुक्तिः, महाप्रतिष्ठाकल्पापेक्षया लघुतरेति ज्ञायते । ततः श्रीआर्यनन्दिक्षपकचन्दनन्दिइन्द्रनन्दीश्रीवज्रखामिप्रोक्तप्रतिष्ठाकल्पदर्शनात् सविस्तरा लिख्यते । यथा-तत्र नवनिष्पन्नविम्बं शुभदिने शुभशकुनैः सुपवित्रं कृतान्तश्चंदनलेपनं बहिःसुधापङ्कितं चन्द्रोदयविराजितच्छदि सधवाकृतसहरिद्रोदकं तन्दुलचूर्णमण्डनं चैत्यं समानयेत् । लघुगृहपूजाबिम्वं च एतदक्तसंस्क्रिय गृहमानयेत् । ततः स्थिरबिम्बस्याधः पञ्चरत्नं कुम्भकारचक्रमृत्तिकासहितं स्थापयेत् । चलबिम्बस्याधस्तु पूतनदीवालुकां समूलं गोकर्णमात्रदर्भ च स्थापयेत् । पूर्व येभ्यो येभ्यो जलाशयेभ्यो । महोत्सवेन जलमानीयते, तेषु तेषु गन्धपुष्पधूपदीपनैवेद्यबलिपूजनमन्त्रपूर्वकं विधाय ततो जलमानयेत् ।। मन्त्रो यथा-ॐ वं वं वं नमो वरुणाय पाशहस्ताय सकलयादोधीशाय सकलजलाध्यक्षाय समुद्रनिलयाय सकलसमुद्रनदीसरोवरपर्वतनिझरकूपवापीखामिने अमृताङ्गकाय देवाय अमृतं देहि २ अमृतं झर २ अमृतं स्रावय २ नमस्ते वाहा गन्धं गृहाण २ पुष्पं गृहाण २ धूपं गृहाण २ दीपं गृहाण २ नैवेद्यं गृहाण २ बलिं गृहाण २ जलं देहि २ खाहा । ततो मण्डपमध्ये वेदिरचना, वेदिस्थापनवेदिप्रतिष्ठाविधिर्विवाहाधिकारादव
सेयः। वेदिमध्ये चलबिम्बस्थापनम्, स्थिरबिम्बं तु तथैव जलपट्टोपरि स्थापयेत्, वेदिमध्ये त्वन्यच्चलबिम्ब हादेववन्दनाप्रथमपूजाकर्मार्थ स्थापयेत् । तत्पार्श्वेषु श्वेतवारकोपरि यववारकनिवेशनं चतुर्दिक्षु तथा च गोधूम
___Jain Education inin
al
For Private & Personal use only
Tww.jainelibrary.org