________________
आचार
दिनकरः
॥ १४९ ॥
Jain Education Inter
I
| ६६ इत्यपि ॥ ७ ॥ वरुणो ६७ बीजपूरश्च ६८ मेषशृंगी ६९ पुनर्नवा ७० । वज्रकंदो ७१ विदारी ७२ च शृगाली ७३ रजनीद्वयम् ७४ ॥ ८ ॥ चित्रकं ७५ नलमूलं ७६ च कोरण्टः ७७ शतपत्रिका ७८ । कुमारी ७९ नागदमनी ८० गौरी ८१ निंबश्च ८२ शाल्मलिः ८३ ॥ ९ ॥ कृतमालश्च ८४ मंदार ८५ इंगुदी ८६ शाल ८७ इत्यपि । शरपुंखा ८८ श्वगन्धा ८९ च वज्रशूलं ९० मयूरकः ९१ ॥ १० ॥ भूतकेशी ९२ रुद्रजटा ९३ रक्ता ९४ च गिरिकर्णिका ९५ । पातालतुंत्र्य ९६ तिविषा ९७ वज्रवृक्ष ९८ शायर: ९९ ॥ ११ ॥ चक्षुष्या १०० च लज्जि - रिका १०१ लक्ष्मणा १०२ लिंगलांछना १०३ । काकजंघा १०४ पटोल १०५ व मुरा १०६ तेजोवती १०७ तथा ॥ १२ ॥ कनकद्रुश्च १०८ भूनिंब १०९ एतेषां मूलमुत्तमम् । शतमूलमिति ख्यातं मिलितं शास्त्रवेदिभिः ॥ १३ ॥ इति शतमूलम् । शतावरी १ सहदेवी २ शिरा ३ जीवा ४ पुनर्नवा ५ । मयूरकः ६ कुष्ट ७ वचे ८ सहस्रं मूलमुच्यते ॥ १ ॥ सहस्रसंख्या वृक्षाणां जातेर्मूलाभिसंग्रहात् । सहस्रमूलमुद्दिष्टमिति कैश्चिन्निगद्यते ॥ २ ॥ इति सहस्रमूलवर्गः ॥ दधि १ दुग्धं २ घृतं ३ चेक्षुरसं ४ पञ्चममं ५ च । आर्हतानां मते पञ्चामृतमेतन्निगद्यते ॥ १ ॥ इति पञ्चामृतम् । तथा च वेदिघटानयने तीर्थजलानयने वेदिस्थापने औषधिवर्तने सर्वेध्वेषु स्थानेषु गीतनृत्यवादित्रबहुलो महानुत्सवो विधेयः । इति प्रतिष्ठासामग्री संपूर्णा ॥
For Private & Personal Use Only
विभागः २
प्रतिष्ठा
विधिः
॥ १४९ ॥
jainelibrary.org