SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ AAAAAAAC4%%* रिहन्तः सिद्धाः साधवः श्रुतं च धर्मश्च सम्यग्दृष्टयो देवाः मम मङ्गलं समाधि बोधिं च ददतु ॥४७॥ ॥ प्रतिक्रमणकारणमाह । 'पडिसिद्धाणं करणे किचाणं अकरणे पडिक्कमणं । अस्सद्दहणे य तहा विवरीयपरूद्रवणाए य ॥४८॥ प्रतिषिद्धानां हिंसादीनां करणे कृत्यानां यतनावश्यकानां अकरणे प्रतिक्रमणं । अत्र किल प्रायश्चित्तविधौ यत्प्रतिक्रमणशोधनीयं पापं तत्र प्रतिक्रमणमित्यर्थः ॥४८॥ ॥ अथ क्षामणमाह । 'खामेमि सब० एवमहमालो०' इत्यादिगाथाद्वयं यतिप्रतिक्रमणसूत्रवह्याख्येयम् ॥ इति श्राद्धप्रतिक्रमणसूत्रछायार्थः ॥ अत्र सर्वत्र यतिश्राद्धप्रतिक्रमणछायार्थ उक्तः । चालनादिव्याख्या न कृता ग्रन्थविस्तरभयात् ।। इत्यावश्यके प्रतिक्रमणम् ॥ ___ अथ कायोत्सर्गः। कायस्य निश्चेष्टत्वादिना उत्सर्जनं कायोत्सर्गः । तस्येयं व्याख्या । तत्र पूर्व पापकर्मनिर्यातनार्थ पापविशुद्ध्यर्थं वा विघ्नोपशमार्थ वा कस्यचिदपि देवादेराराधनार्थ वा कायोत्सर्गकरणं । तत्र करेमि काउस्सग्गं अथवा ठामि काउस्सग्गं अन्नत्य उससिएणं नीससिएणं खासिएणं छीएणं जंभाइएणं उहएणं वायनिसग्गेणं भमलिए पित्तमुच्छाए सुहमेहिं अंगसंचालहिं सुहुमेहिं खेलसंचालहिं सुहमेहिं दिहिसंचालेहिं एवमाइएहिं आगारोहिं अभग्गो अविराहिओ हुन्ज मे काउसग्गो जाव अरिहंताणं भगवंताणं नमुक्कारेणं न पारेमि तावकायं ठाणेणं मोणेणं झाणेणं अप्पाणं वोसिरामि । व्याख्या । करोमि कायोत्सर्ग प्रतिष्ठामि वा अन्यत्र अनन्तरोक्तचेष्टासमागमे अभग्नत्वे सतीत्यर्थः । अन्यत्रशब्दः सर्वत्र योज्यः । उच्चसि Jan Education Internal For Private & Personal Use Only w.jainelibrary.org
SR No.600002
Book TitleAchar Dinkar Part-2
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year1923
Total Pages534
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy