________________
Jain Education Internat
दुःप्रणिधानरूपः, गुप्तिषु मनोवाक्कायरूपासु तदकरणरूपः, समितिषु ईर्याभाषैषणादाननिक्षेपोत्सर्गरूपासु तत्प्रमादरूपः एवं पूर्वोक्तेषु योऽतिचारस्तं निन्दामि ॥ ३५ ॥ ॥ अथ सम्यग्दृष्टेरल्पं कर्मबन्धमाह । 'सम्म हिट्ठी जीवो जवि हु पावं समायरह किंचि । अप्पोसि होइ बंधो जेण न निबंधसं कुणई ॥ ३६ ॥ सम्यदृष्टिर्जीवः यद्यपि किंचित्पापं कर्म बलात्कारेण समाचरेत् तस्याल्पो बन्धो भवति येन स निद्धंघसं नि:शङ्कं न करोति शङ्कमानस्य कर्मादिबलात्कारेण पापं कुर्वतो न दृढः कर्मबन्धः ॥ ३६ ॥ तस्याप्यल्पकर्मबन्धस्य विनाशमाह । 'तं पि हु सपडिक्कमणं सप्परियावं सउत्तरगुणं च । खिप्पं उवसामेई वाहिव सुसि क्खिओ विज्जो ॥ ३७ ॥ सम्यग्दृष्टिर्जीवः तमपि कर्मबन्धं सप्रतिक्रमणं सपरितापं सचित्तात्मनिन्दं सोत्तरगुणं सपुण्यप्रतिबन्धं क्षिप्रमुपशमयति । यथा सुशिक्षितो वैद्यो व्याधिं क्षिप्रमुपशमयति ॥ ३८ ॥ ॥ अथ कर्मोपशमं दृष्टान्तद्वारेण गाथाद्वयेनाह । 'जहा विसं कुट्टगयं मंतमूलविसारिया । विज्जा हणंति मंतेहिं तो तं हवइ निविसं ॥ एवं अट्ठविहं कम्यं रागदोससमज्जियं । आलोयंतो य निंदतो खिष्पं हणइ सुसावओ ॥ ३९ ॥ ॥ यथा मूलमन्त्रविशारदा वैद्याः कोष्टगतं देहमध्यगतं विषं मन्त्रैर्न्नन्ति ततस्तत्कोष्टं निर्विषं भ यति एवं सुश्रावकः आलोचयन् निन्दन् रागद्वेषसमर्जितं अष्टविधं कर्म क्षिप्रं हन्ति ॥ ३९ ॥ ॥ अथ वि| शुद्धिमाह । 'कयपावोवि मणुस्सो आलोइय निंदिओ गुरुसगासे । होइ अइरेगलहुओ ओहरियभरुव भारवहो ॥ ४० ॥ कृतपापोपि मनुष्यः गुरुसकाशे आलोच्य निन्दित्वा अतिरेकलघुर्विगतपापभारो भवति ।
For Private & Personal Use Only
www.jainelibrary.org