SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ आचारदिनकरः विभागः२ आवश्यकविधिः HEROIRANIRAULAR प्राशुकदाने तपश्चरणकरणयुक्तेषु साधुषु संविभागो न कृतः तं निं०॥ ३२॥ संलेखनायां प्रतिक्रमणमाह ।। 'इहलोए परलोए जीविय मरणे य आससपयोगे । पंचविहो अइयारो मा मजं हुज मरणंते ॥३३॥ इहलोके आशंसा जीवितव्योत्सवादिकाङ्क्षा, परलोके आशंसा खर्गमोक्षादिवांछा, जीविते आशंसा जीवितेच्छा, मरणे आशंसा मरणेच्छा, प्रयोगो निदानादिबन्धेन राज्यदेवत्वादिकाङ्क्षा । अयं पञ्चविधोऽतिचारः मम मरणान्ते माभूत् ॥ ३३॥ ॥ अथ योगत्रयसमस्तातिचारप्रतिक्रमणमाह । 'काएण काइयस्स पडिक्कमे वाइयस्स वायाए । मणसा माणसियस्स सबस्स वयाइयारस्स ॥ ३४ ॥ कायिकस्य कायेन कृतस्य वधबन्धादिरूपस्य व्रतातिचारस्य कायेन तपःकर्मादिकरणेन प्रतिक्रमामि, वाचिकस्य असत्यादिवचनोपार्जितस्य व्रतातिचारस्य वाचा मिथ्यादुःकृतं तन्निन्दापुरस्कृतया प्रतिक्रमामि, मानसिकस्य दुश्चिन्तार्जितस्य व्रतातिचारस्य सर्वस्य मनसा शुभध्यानयुतेन प्रतिक्रमामि ॥ ३४॥ ॥ अथ सर्वानतिचारानाह । 'वंदणवयसिक्खागारवेसु सन्नाकसायदंडेसु । गुत्तीसु य समईसु य जो अइयारो अ तं निंदे ॥ ३५ ॥' वन्दनव्रतशिक्षागौरवेषु संज्ञाकषायदण्डेषु गुप्तिषु च समितिषु च योऽतिचारस्तं निन्दामि । वन्दनचैत्यवन्दने अनादराद्यतिचारः, गुरुवन्दने अनाहतादिद्वात्रिंशद्भेदः व्रतेषु द्वादशस्वपि पञ्चपञ्चातिचारपञ्चदशकर्मादानरूपः, शिक्षायां श्रुतादानादिरूपायां अविनयादिरूपः, गौरवेषु ऋद्धिरसातरूपेषु तत्तल्लोभरूपः, संज्ञासु आहारभयमैथुनपरिग्रहरूपासु तत्तदाधिक्यरूपः, कषायेषु क्रोधमानमायालो भेषु तत्तदाधिक्यरूपः, दण्डेषु मनोवाकायेषु तत्त RECER-CHAM" ।। ३०९॥ Jan Education Inter For Private & Personal Use Only Il www.jainelibrary.org
SR No.600002
Book TitleAchar Dinkar Part-2
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year1923
Total Pages534
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy