________________
64-CHOCOLONELORSCIEOCOCCA-न
व्रते अतिचारान्निन्दामि ॥ २७ ॥'आणवणे पेसवणे सद्दे रूवे य पुग्गलक्खेवे । देसावगासियम्मी बीए सिक्खावए निंदे ॥ २८॥ देशावकाशिकनियमे गृहीते अवग्रहबहिर्भागात् वस्तुनो जीवादेर्वा आनयनं प्रेषणं तत्रैव मनुष्यादेः प्रेषणं शब्दस्तद्वहिर्गतस्याकारणरूपं तद्वहिर्गतस्य खरूपं दर्शयित्वा संज्ञादिकरणं पुद्गलक्षेपः तहहिर्मूत्खण्डादिक्षेपः देशावकाशिके नियमे द्वितीये शिष्याव्रते अतिचारान्निन्दामि ॥ २८॥ ॥ पौषधातिचारमाह 'संथारुच्चारविही पमाय तह चेव भोयणाभोए। पोसहविहिविवरीए तइए सिक्खावए निंदे ॥२९॥' संस्तारकविधिः उच्चारविधिद्वये अप्यविधिना कृते प्रमादः प्रसिद्धः । तथा चैव भवत्यनाभोगो विस्मरणं पौषधविधिविपरीतान्पौषधभङ्गकारिणः तृतीये शिक्षाव्रते अतिचारान्निन्दामि ॥ २९॥ ॥ अतिथिसंविभागवतातिचारानाह । 'सचित्ते निक्खिवणे पिहणे ववएस मच्छरे चेव । कालाइक्कमदाणे चउत्थे सिक्खावए निंदे ॥३०॥' सचित्ते निक्षेपः सचित्तेन पिधानं व्यपदेशोऽपरकीयवस्तुख्यापनं । मत्सरोऽन्यदानासूययादानं कालातिक्रमदानं चतुर्थशिष्याव्रते अतिचारान्निन्दामि ॥ ३०॥ ॥ अथ मिथ्यात्वप्रतिक्रमणं प्रकारान्तरेणाह । 'मुहिएसु य दुहिएसु य जा मे असंजएसु अणुकंपा । रागेण व दोसेण व तं निंदे तं च गरिहामि ॥ ३१॥' सुखितेषु वा दुःखितेषु वा गृहिलिङ्गि-कुलिङ्गि-द्रव्यलिङ्गिषु रागेण वा दोषेण वा या मे अनुकम्पा तां च निन्दामि तां च गहें ॥३१॥ ॥ सम्यक्त्वभङ्गप्रतिक्रमणं प्रकारान्तरेणाह । 'साहसु संविभागो न कओ तवचरणकरणजुत्तेसु । संते फासुयदाणे तं निंदे तं च गरिहामि ॥ ३२॥' यन्मया सत्यपि
सम.दि.५३
Jan Education Inter
For Private & Personal Use Only
www.jainelibrary.org