________________
आचारदिनकरः
॥ ३०८ ॥
Jain Education Ints
गकेदारद्रहादिशोषणं १४, असतीपोष: वित्तनिमित्तं दास्यादिपोषणं सारिका शुकमार्जारकुक्कुटमयूरश्वानपालनरूपं १५, एतत्कर्मादानपञ्चदशकं द्वितीयान्तं कृत्वा वर्जयेदिति शेषः ॥ २३ ॥ ॥ अथानर्थदण्डं गाथात्रयेणाह । "सत्यरिग मुसल जंतग तणकंठे मंतमूलभेसज्जे । दिने वाविये वा पडिक्कमे देवसियं सर्व्वं ॥ २४ ॥ न्हाणुवट्टण वन्नग विलेवणे सदरूवरसगन्धे । वत्थासण आभरणे पडि० ॥ २५ ॥ कंदप्पे कुकुहए मोहरिअहिगरिणभोग अइरिते । दंडंमि अणट्ठाए तइयंमि गुणवए निंदे ॥ २६ ॥' शस्त्रे अग्नौ मुसले यत्रे तृणे काष्ठे मन्त्रे मूले भेषजे दत्ते दापिते वा प्रतिक्रमामि शेषं० । इति हिंसोपकारिदानहिं सोपदेशदानविरमणेनान|र्थदण्डविरमणमुक्त्वा प्रमादविरमणेन तद्विरमणमाह । स्नानोद्वर्तनवर्णकविलेपनादौ अतिमात्रे कृते अन्यस्मात्कारिते वा अनर्थदण्डः । शब्दे रूपे रसे गन्धे अतिमात्रे अविधिकृते व्यसनरूपे वस्त्रे आसने आभरणे अतिमात्रे प्रतिक्रमामि शेषं० ॥ अतिचारानाह । कंदर्पः परोपहासः, कौत्कुच्यं कुटिलालापसव्याहतार्थवचनं, मौखर्यमतिवावदूकतया परस्तुतिनिन्दे, अधिकरणातिरेकः उलूखलमुसलादिपापोपकरणाधिक्यं संयुक्तता वा, भोगातिरेकः कामशास्त्रश्रवणदोलान्दोलन महामैथुनरूपः, अनर्थदण्डे तृतीयगुणवते अतिचारान्निन्दामि ॥ २६ ॥ ॥ अथ सामायिकातिचारानाह । 'तिविहे दुप्पणिहाणे अणवट्ठाणे तहासयविहीणे । सामाइए वितहकहे पढमे सिक्खावए निन्दे ॥ २७ ॥' त्रिविधे दुःप्रणिधाने मनोवाक्कायानां दुष्टस्थितिरूपे अनवस्थाने स्मृतिभ्रंशे तथा आशयविहीने अनादरकृते सामायिके वितथकृते सातिचारनिर्मितौ प्रथमशिष्या -
For Private & Personal Use Only
विभागः २
आवश्यक
विधिः
॥ ३०८ ॥
www.jainelibrary.org