________________
Jain Education Inte
लीकवचनविरतेः कन्यागोभूम्यलीकन्यासापहारकूट साक्ष्यविरतिरूपायाः अतिचरितं शेषं० । सहसाभ्याख्यानं अश्रुतादृष्टपरविरूपकथनं । रहस्स इति परगुह्यभाषणं । दारेति परस्य विश्वासेन निवेदितस्य प्रका शनं । मृषोपदेशः ज्ञात्वाऽज्ञात्वा वा भेषजमत्रादीनां कूटकथनं । कूटलेखोऽसत्यवार्तालिखनं द्वितीयव्रतस्यातिचारे शेषं० ॥ १२ ॥ 'तइए अणुवयंमी थूलगपरद्दचहरणविरईओ । आयरियमप्पसत्थे इत्थपमायप्प संगेण ॥ १३ ॥ तेनाहडप्पओगे तप्पडिरूवे य विरुद्वगमणे य । कूडतुलकूडमाणे पडि० ॥ १४ ॥ तृतीये अणुव्रते स्थूलपरद्रव्यहरणविरतेः राजनिग्रहकर चौरनामकरादत्तादानवर्जनात् अतिचरितं शेषं० । तेनाहृतवस्तुग्रहणं मूल्येनापि । प्रयोगः चौर्यार्थ परप्रेरणं तत्प्रतिरूपं वस्तुसदृशवस्तुमीलनं विरुद्धगमनं नृपतिनिषिद्धदेशगमनं । कूटतुलकूदमानं प्रसिद्धं प्रतिक्रमामि शेषं० ॥ १४ ॥ चत्थे अणुवयंमी णिचं परदारगमणविरईओ । आयरियमप्प० ॥ १५ ॥ अपरिग्गहिया इत्तर अणंगवीवाह तिवअणुरागे । चउत्थवयस्स अइयारे पडि० ॥ १६ ॥' गाथाद्वयेन संबन्धः । चतुर्थे अणुव्रते नित्यं परदारगमनविरतेः अतिचरितं शेषं पू० । अत्र परदारगमनविरतौ वेश्याविधवोपेक्षितागमने निर्दोषता तथाप्यतिचारमाह । अपरिगृहीतागमनं वेश्याविधवादेरस्वीकृताया अभिगमः । इत्वरा केनापि या स्तोककालं द्रव्यादिना वेश्याविधवा स्वीकृता तस्याभिगमः । अनङ्गक्रीडा पुरुषस्य पुरुषादिसंगो हस्तकर्मादि वा । विवाहोऽन्यकन्यापुत्रविवाहकारिता । तीव्रानुरागः कामक्रीडादिकामशास्त्रोचितं कर्म चतुर्थस्य व्रतस्यातिचारान् शेषं० ॥ १६ ॥ 'इत्तो अणुवये पंचमंमि आयरिय
For Private & Personal Use Only
www.jainelibrary.org