________________
द्विविधे परिग्रहे वाह्याभ्यन्तरसंग्रहे मूर्छारूपे । बहुविधे च सावये आरम्भे एतयोः कारणे च करणे च अनुमतिनिवर्तनाभावात् । प्रतिक्रमामि निराकरोमि । अतिआचारमित्यर्थः । देवसिकं दिवसकृतं सर्व पापात्मक केचिदाहुः । देसियं दैशिकं देशविरतिमध्यगं ॥ ३ ॥ ज बद्धमिदिएहिं चउहिं कसाएहिं अप्पसत्थेहिं । रागेण व दोसेण व तं निन्दे तं च गरिहामि ॥४॥' कर्मबंधस्य अतिचारस्य कारणमाह । यत् अप्रशस्तैर्गाढलोलुपैर्दुष्टक्रियासक्तैरिन्द्रियैः स्पर्शनादिभिः अप्रशस्तैः गाढाविर्भूतैः चतुर्भिः कषायैः क्रोधादिभिः यत्कर्मबद्धं रागेण वा द्वेषेण वा सर्वकर्मबन्धसहचारिणा तं निन्दामि तच गहें ॥४॥'आगमणे निग्गमणे ठाणे चंकमणे अणाभोगे । अभिओगे य निओगे पडिक्कमे देवसियं सत्वं ॥५॥' आगमने कार्यसमाप्तिनिवर्तने निर्गमने कार्यार्थयाने स्थाने स्थितौ शयनोपवेशादौ चंक्रमणे गमने सर्व अनाभोगो विस्मृत्या अयत्नतया कृते अभियोगे स्वयं रचने नियोगे अन्यस्मात्कारणे प्रतिक्रमामि देवसिकं सर्व ॥५॥ ॥ सर्वातिचारोपायानाख्याय सम्यक्त्वातिचारानाह । 'संका कंक्ख विगिच्छा पसंस तह संथवो कुलिंगीसु । सम्मत्तस्स इयारे पडिक्कमे देवसियं सत्वं ॥६॥ शङ्का अहंद्धर्मोस्ति नवेति काङ्क्षा, परसमयागमेष्वपि वांछा, जुगुप्सा मलधारिसाध्ववलोकनात्, अहद्धर्मस्य निन्दा तथा कुलिङ्गिषु मिथ्याष्टियतिषु प्रशंसा श्लाघनं, तैरेव सहसंस्तवः परिचयः इति सम्यक्त्वस्यातिचारान् पञ्च दैवसिकं सर्व प्रतिक्रमामि ॥ ६॥ पुनव्रतखण्डनहेतुनाह'छक्कायसमारंभे पपणे पयावणे य जे दोसा । अत्तहा य परट्ठा उभयट्ठा चेय तं निंदे ॥७॥' षट्
Jan Education Inter 104
For Private & Personal Use Only
www.jainelibrary.org