SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ आचारदिनकरः विभागः२ आवश्यक विधिः ॥२९६॥ तया बालतया मूढत्वेन शिशुत्वेन वा मोहतया मिथ्यात्वादिमोहेन भण्डतया रागपरादिपारवश्येन क्लिष्टतया क्लेशकर्मत्वेन त्रिगौरवगुरुतया ऋद्धिरससातगौरवेण एतैः प्रकारैः अस्य धर्मस्य अतीचारैरिति योजना। कथंभूतेन मयेत्याह-चतुःकषायोपगतेन पञ्चेन्द्रियवशार्तेन परिपूर्णतया सातासौख्यमनुपालयता तथा मया अस्य धर्मस्य अज्ञानतया अस्मिन्वा भवे वर्तमानजन्मनि अन्येषु वा भवग्रहणेषु अतीतानागतेषु प्राणातिपातः कृतो वा कारितो वा क्रियमाणो वा परैः समनुज्ञातः तं निन्दामि गहें त्रिविधं त्रिविधेन मनसा वाचा कायेन अतीतं निन्दामि प्रत्युत्पन्नं वर्तमान संवृणोमि अनागतं प्रत्याख्यामि सर्व प्राणातिपातं यावज्जीवमहै निश्रितोऽहं निश्रारहितो विषमुक्त इत्यर्थः । नैव खयं प्राणान् अतिपातयेत् नैव अन्यैः प्राणान् अतिपात येत् प्राणानतिपातयतोऽन्यान्न समनुजानीयात् । तद्यथा । अर्हत्साक्षिक सिद्धसाक्षिकं साधुसाक्षिकं देवसाक्षिकं गुरुसाक्षिकं । केचिदाहुः आत्मसाक्ष्यकं । अत्र अर्हत्सिद्धसाधुदेवात्मसाक्ष्यत्वे यन्निषिद्धं तदकरणीयमेवेत्यर्थः । केवलावधिज्ञानेन्द्रियादीनां सर्वप्रत्यक्षत्वात् एवं भवति । अहमितिकथने कः पालक इत्याह । भिक्षुर्वा भिक्षुकी वा साधुर्वा साध्वी वा संयतविरतप्रतिहतप्रत्याख्यातपापकर्मासंयतं नियमितं विरतं निवृत्तं प्रतिहतं शुभकर्मभिर्घातितं प्रत्याख्यातं निराकृतं । कदा कर्मत्याह । दिवा वा रात्री वा । कीदृशो भिक्षुर्भिक्षुकी च । एकको वा पर्षदि गतो वा खप्तो वा जाग्रद्वा एतत्खलु प्राणातिपातस्य विरमणं हितं श्रुतं क्षम तारणसमर्थ निःशेषितं संपूर्ण पालितं आत्मानुगामि आत्मसेवनीयं परानुगामि परप्रतिपादनीयं । पुनः क ॥२९ ॥ Jain Education Inter For Private & Personal Use Only VI www.jainelibrary.org FE
SR No.600002
Book TitleAchar Dinkar Part-2
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year1923
Total Pages534
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy