________________
Jain Education Interna
कथितः । तद्यथा । स यथा वा । द्रव्यतः १ क्षेत्रतः २ कालतः ३ भावतः ४ । द्रव्यतो णं इति वाक्यालंकारे । प्राणातिपातः षट्सु जीवनिकायेषु पूर्वोक्तेषु क्षेत्रतः प्राणातिपातः सर्वलोके चतुर्दशरजवात्मके कालतः प्राणातिपातो दिवा वा रात्रौ वा । भावतः प्राणातिपातो रागेण वा दोसेण वा । रागद्वेषभावाः सर्वेऽपाया इति ॥
अथ यतिधर्मस्य अज्ञानतादिभिर्विराधनात् यो व्रतभङ्गस्तं ख्यापयति यथा - यदपि च मया अस्य धर्मस्य यत्याचारस्य केवलिप्रज्ञप्तस्य अहिंसालक्षणस्य दयामूलचिह्नस्य सत्यावस्थितस्य सुनुतस्थितस्य विनयमूलस्य प्रणत्युत्पन्नस्य क्षान्तिप्रधानस्य क्षमाश्रेष्ठस्य अहिरण्यसुवर्णस्य द्रव्यकाञ्चनरहितस्य उपशमप्रभवस्य कषायच्छेदोत्पन्नस्य नवविधब्रह्मचर्यगुप्तस्य नवब्रह्मगुप्तियुक्तस्य अप्रथितमानस्य अथवा अप्रमाणस्य मानरहितस्य द्विधापि भिक्षावृत्तिकस्य भैक्षमात्रोपजीवनस्य कुक्षिसंबलस्य भुक्तमात्रपाथेयस्य न सन्निधिकरणस्य निरग्नि| शरणस्य अभ्यागार विहितस्य संप्रक्षालितस्य क्षालितसर्वपापमलस्य व्यक्तदोषस्य परिहृतरागादेः गुणग्राहिणो गुणानुरक्तस्य निर्विकारस्य इन्द्रियमनोविकारत्यक्तस्य निर्वृत्तिलक्षणस्य सर्वव्यापारनिवृत्तिचिह्नस्य पञ्चमहाव्रतयुक्तस्य असन्नसंयतस्य संयमेऽश्रान्तयतेः औपसंवादिकस्य । पूर्वापरयोर्वचनयोरेकार्थता उपसंवादः उपसंवादेन युक्त औपसंवादिकः तस्य संसारपारगामिनः भवतारकस्येत्यर्थः । निर्वाणगमनपर्यवसानबलस्य निर्वाणगमनं मोक्षगमनमेव पर्यवसानं परमार्थरूपं बलं यस्य स तस्य ईदृशस्य धर्मस्य पूर्व अज्ञानतया अश्रवणतया अनाकर्णनेन अबोधितः अभिगमेन प्रवाहप्राध्या अनभिगमेन अप्राध्या प्रमादेन रागद्वेषप्रतिबद्ध
For Private & Personal Use Only
www.jainelibrary.org