________________
Jain Education Int
णार्थम् । अत्र च सूत्रे सन्ध्यादैवसिकप्रतिक्रमणकाले - पगामसिजाए निगामसिजाए इति कथनं दिवाखापवर्जनत्वाद्व्यर्थ, परंतु कदाचिद्रीष्मकाले प्रमादात् खेदात् दिवाखापे कृते अथवा रात्रिप्रतिक्रमणे शय्यातिचारे विस्मृताप्रतिक्रान्ते शय्यादण्डककथनम् । प्रभाते रात्रिप्रतिक्रमणे - पडिक्कमामि गोयरचरियाए पडिक्क मामि चाउक्कालं इति कथनं । निशि भिक्षाप्रतिलेखनयोरभावतो व्यर्थ, परंतु दिवसे अनालोचितातिचाराणां स्वप्रकृतानां वा प्रतिक्रमणाय कथनं ॥ इति यतिप्रतिक्रमणसूत्रव्याख्या ॥
अथ यतिपाक्षिकसूत्रव्याख्या यथा - 'तित्थंकरे अ तित्थे अतित्थसिद्धे अ तित्थसिद्धे अ । सिद्धे जिणे रिसी महारिसीअ णाणं च वंदामि ॥ १ ॥' इत्यादिपाक्षिकसूत्रप्रतिक्रमणस्यादौ मङ्गलसिद्ध्यर्थ अर्हत्सिद्धभेदानां प्रणतिमाह । अहं वन्दे इति क्रियापदं सर्वत्र । कान् । तीर्थंकरान् वीतरागान् । तीर्थान् प्रथमगणधरसंघादीन् अतीर्थसिद्धान् तीर्थसिद्धांश्च । सिद्धप्रकारद्वयव्याख्या सिद्धस्तवादवसेया । जिनान् सामान्यकेव लिनः ऋषीन् मूलगुणोत्तरगुणयुतान् यतीन् महर्षीन् तादृग्विधानेवाणिमादिलब्धियुतान्मुनीन् । ज्ञानं पश्चविधं वन्दे इति सर्वत्र योज्यम् । 'जे प इमं गुणरयणसायरमविराहिऊण तिन्नसंसारा । ते मंगलं करिता अहमवि आराहणाभिमुहो ॥ १ ॥' ये मुनयः इमं गुणरत्नसागरं अविराध्य सम्यक्पालयित्वा तीर्णसंसारा निस्तीर्णभवाः ते मङ्गलं क्रियासुः । अहमपि आराधनाभिमुखः गुणरत्नसागरस्य मुनीनां चाराधनायामेकचित्त इत्यर्थः । पुनरपि स्वस्य मङ्गलार्थ अर्हद्वर्मयोराशिषमाह - 'मे मंगलमरिहंता सिद्धा साहू सुयं च
For Private & Personal Use Only
www.jainelibrary.org