________________
आचार-1 कथंभूतोऽहमित्याह । अनिदानः इहपरलोकफलाकाङ्क्षारहितः । दृष्टिसंपन्नः तत्त्वालोकयुक्तः मायामृषाविव-विभागः २ दिनकरः
र्जितः ॥ एवमतिचारप्रतिक्रमणं विधाय सर्वपापनिरासार्थ यतिभ्यो नमस्कारमाह-अट्ठाइजेसु दीवसमुद्देसु आवश्यकपन्नरससु कम्मभूमीसु जावंति केवि साह रयहरणगुच्छपडिग्गहधारा पंचमहत्वयधारा अट्ठारससहसीलाङ्ग-18 विधिः धारा अक्खोहाआरचरित्ता ते सवे सिरसा मणसा मत्थेण वंदामि । अर्धतृतीयेषु द्वीपसमुद्रेषु जम्बूद्वीपलवणोदधिधातकीखण्डकालोदधिपुष्करवरद्वीपार्धरूपेषु । पञ्चदशसु कर्मभूमिषु पञ्चभरतपञ्चैरावतकुरुवर्जितपञ्चविदेहरूपासु । अत्र समुद्रग्रहणं अन्तीपस्थमुनिनमस्कारार्थ । यावन्तः केपि साधवः । पूर्व स्थविरकल्पानाह-रजोहरणगुच्छपतगधारिणः पञ्चमहाव्रतधारिणः अष्टादशसहस्रशीलाङ्गधारिणः अक्षोभ्याचारचारित्राः जिनकल्पा इत्यर्थः । तान्सर्वान् शिरसा मस्तकेन वन्दे पूर्ववत् ॥ अथ सर्वजीवक्षामणं क्षमिती आह-'खामेमि सबजीवेय सवे जीवा खमंतु मे। मित्ती मे सबभूएसु घेरं मज्झ न केणइ ॥१॥ एतद्याख्यानं पूर्वमेवोक्तं । अथ आत्मशुद्धिं विधाय प्रतिक्रमणप्रान्ते सर्वपापहरान् जिनान्नमस्करोमि । 'एवमहं| आलोइय निंदय गरिहय दुगंछिओ सम्मं । तिविहेणं पडिक्कतो वंदामि जिणे चउच्चीसं ॥१॥' एवमहं यतिः आलोच्य सर्वातिचारालोचनां कृत्वा निन्दित्वा गर्हित्वा जुगुप्सित्वा सम्यक् त्रिविधेन मनोवाकाययोगेन प्रतिक्रान्तः चतुर्विशतिजिनान् वन्दे । निन्दागोजुगुप्सानामेकपर्यायाणां पुन:पुनः कथनं अत्यन्तप्रतिक्रम- ॥२९३ ॥
१ मे ममापराध क्षमन्तु ।
AKASGADARA
Jain Education Inter
For Private & Personal Use Only
'www.jainelibrary.org