________________
आचारदिनकरः
॥ २८६ ॥
|भिरित्याह । ज्ञानविराधनया । ज्ञानविराधना यथा - 'नाण पडणीय निन्हव अञ्च्चासायण तयंतरायं च । कुणमाणस्स इआरो नाणविसंवायजोगं च ॥ १ ॥' विस्तारो महाग्रन्थेभ्यो ज्ञेयः । दर्शनविराधनया सम्यक्त्वछेदेन शङ्कादिभिः । चारित्रविराधनया सर्वविरतिचारित्रखण्डनेन । चतुर्भिः कषायैः कष्यते निरन्तरं बध्यते आत्मा अनेनेति कषायः तस्य आयाः लाभरूपाः कषायास्तैः । कैरित्याह । क्रोधकषायेण परद्रोहचिन्तनरूपेण रौद्ररसात्मकेन मानकषायेण परमाहंकृतिरूपेण मायाकषायेण परवञ्चनारूपेण लोभकषायेण अनन्ततृष्णामूर्च्छारूपेण । कषायाणामनन्तानुबन्धिप्रभृतिविस्तारव्याख्या श्रुतोदधौ ज्ञेया । चतुर्भिः संज्ञाभिः संज्ञानं आत्मनः काङ्क्षया वस्त्वन्तरपरिज्ञानं संज्ञा तया ताभिः । काभिरित्याह । आहारसंज्ञया चतुर्विधा - हारषड्रसेच्छारूपया । भयसंज्ञया सप्तभयात्मिकया । मैथुनसंज्ञया स्त्रीसंभोगादिकाङ्क्षया । परिग्रहसंज्ञया सर्वभावेषु मूर्छारूपया । चतसृभिर्विकथाभिः विरुद्धा जनापवादपरापराधकार्य भङ्गकादिन्यः कथाः ताभिः । काभिरित्याह-स्त्रीकथया स्त्रीजातिदेशगुणादिव्याख्यानरूपया । भक्तकथया षड्सचतुर्विधाहारश्लाघानिन्दारूपया । देशकथया नानादेशाचारवस्तुश्लाघानिन्दारूपया ! राजकथया नृपप्रतापापयशःप्रभृतिश्लाघानिन्दारूपया । चतुर्भिर्ध्यानैः ध्यायते सप्ततत्वमध्यगतं किंचिद्यैः तानि ध्यानानि तैः । कैरित्याह । आर्तेन ध्यानेन | दुःखाशादैन्यपरार्थनादिदुःखासिकारूपेण । रौद्रेण ध्यानेन परद्रोह चिन्तनादिक्रोधात्मकेन । धर्मेण ध्यानेन आज्ञापायविपाकसंस्थानचिन्तनरूपेण । शुक्लेन ध्यानेन चतुर्विधेन तत्वार्थशास्त्रोपयुक्तेन । पञ्चभिः क्रियाभिः
Jain Education Innal
For Private & Personal Use Only
विभागः २
आवश्यक
विधिः
॥ २८६ ॥
• www.jainelibrary.org