________________
SIM तिमभिर्गुप्तिभिगोपन
साया वचसा मीनेन निरवद्या
बन्धनाभ्यां अग्रतः । हेवर्थे तृतीया सर्वत्र । काभ्यामित्याह । रागबन्धनेन दोषबन्धनेन इष्टभावेषु जीवादिषु सर्वेषु लेहसंवन्धो रागः तेष्वेवानिष्टेषु कारणाद्वेषमागतेषु जुगुप्सा अभावविनाशनबुद्धयोः द्वेषः तौ च बन्धनभूतौ । यतः सर्वोपि कर्मसंबन्धोऽष्टभेदभिन्नो रागद्वेषाभ्यामेव प्रतिबध्यते । त्रिभिर्दण्डैर्दण्डयन्ति आत्मानं पुनर्बन्धनं गृहीत्वा निःसत्वं कुर्वन्ति दण्डास्तैर्देण्डैः। कैरित्याह । मनोदण्डेन मनसो दुश्चिन्तितादिभेदेन कर्मबन्धस्याहार्येण । वचोदण्डेन वचसोऽसत्यविप्रियस्यावद्यादिसन्निधानेन । कायदण्डेन कायस्य सावद्यचे. ष्टाकरणेन तिसृभिर्गुप्तिभिर्गोपनं समाधानेन रक्षणं गुप्तिः ताः ताभिः । काभिरित्याह । मनोगुप्या मनसा दुश्चिन्तानिवारणेन धर्मशुक्लावध्यानेन । वचोगुप्त्या वचसा मौनेन निरवद्याल्पभाषणेन वा । कायगुप्त्या दुश्चेष्टात्यागेन संलीनताभिर्वा परीषहसहत्वेन वा । आसामकरणे अतीचारः । त्रिभिः शल्यैः शलयन्ते प्राणिनं कम्पयन्ते बाधन्ते वा शल्यानि तैः । कैरित्याह । मायाशल्येन माया शुभाशुभैः कर्मभिः परिवञ्चनविप्रतारणे |सैव शल्यं तेन निदानशल्येन सर्वेषां बन्धनहेतुमनोवाक्कायैश्चेष्टा तपःप्रभृतिभिः स्वर्गराज्यमोक्षादिकाङ्क्षा वा तदेव शल्यं तेन । मिथ्यादर्शनशल्येन अतत्वे तत्वभावोमिथ्यादर्शनं पञ्चप्रकारभिन्नं तदेव शल्यं तेन। त्रिभिगौरवैः कर्मोपचयेन आत्मनो गुरुत्वकरणं गौरवं तैः। कैरित्याह। ऋद्धिगौरवेण आचार्यपदप्राप्तिराजसन्मानार्थादिलाभतृष्णागर्वोद्भवेन रसगौरवेण इष्टरसषट्प्रकारलाभानन्देन सातगौरवेण सातं सुखं तस्य लोभप्रमोदाभ्यां त्रिभिर्विराधनाभिः सावद्यासंयमभेदादिना कर्मबन्धकरी क्रिया विराधनेत्युच्यते ताभिः । का
ल यन्ते प्राणिनं
Jan Education inten
For Private & Personal Use Only
www.jainelibrary.org