________________
आ. दि. ४९
Jain Education Interna
पारिष्ठापनिकोच्यते । उहासनभिक्षया भिक्षाग्रहणमध्ये यत्कमनीयतरस्यान्नादेर्याचनं सा सिद्धान्तभाषया उहासनभिक्षोच्यते तया० यत् उद्गमने आधाकर्मिकादिषोडशदोषमयेन उत्पादनेन धात्र्यादिषोडशदोषमयेन एषणया शङ्कितादिदशदोषमय्या अपरिशुद्धं सदोषं यत्प्रतिगृहीतं समानीतं परिभुक्तं प्राणाधारे नियोजितं यन्न परिष्ठापितं सदोषं सम्यङ्ग परित्यक्तं तस्य मिथ्या मे दुष्कृतम् ॥ शयनातिचारभिक्षातिचारान्मतिक्रम्य प्रतिलेखनाद्यतिचारान्प्रतिक्रामति यथा - पडिक्कमामि चाउक्कालं सज्झायस्स अकरणयाए उभओ कालं भंडोवगरणस्स अप्पडिलेहणाए दुप्पडिलेहणाए अप्पमज्जणाएं दुप्पमजणार अइकम्मे वइक्कम्मे अइयारे अणायारे जो मे देवसिओ अइयारो कओ तस्स मिच्छामि दुक्कडं ॥ प्रतिक्रमामि चतुःकालं निशादिवसयोः पूर्वपश्चिमयामौ सर्वेषां धर्मानुष्ठानकालः अतएव चतुःकालमित्युच्यते स्वाध्यायस्य प्रतिक्रमणप्रति - लेखनारूपस्य अकरणतया उभयकालं दिवसप्रथमचरमप्रहरयो भण्डोपकरणस्य पात्रवस्त्रसंस्तारकरूपस्य अ| प्रतिलेखनया अदर्शनेन दुःप्रतिलेखनया अयुक्त्या दर्शनेन अप्रमार्जनया अप्रतिलेखनया दुःप्रमार्जनया अयुत्या कृतया प्रमार्जनया अतिक्रमे व्यतिक्रमे अतिचारे अनाचारे आधाकर्मिकामन्त्रणाप्रतिक्र मणयोरतिक्रमः आधाकर्मिकग्रहणापगमने व्यतिक्रमे तद्ब्रहणे अतिचारः तद्भक्षणे अनाचारः तस्मिन्निति सर्वत्रानुवर्तते । जो मे पूर्ववत् ॥ अथैकादिद्वारेणातिचाराणां प्रतिक्रमणमाह यथा-पडिक्कमामि एगविहे असंजमे पडिक मामि दोहिं बंधणेहिं रागबंधणेणं दोसबंधणेणं पडिक्कमामि तिहिं दंडेहिं मणदंडेणं वयदंंडेणं कायदंडेणं पडिक्क
For Private & Personal Use Only
www.jainelibrary.org