________________
आचार
दिनकरः
विभागः२ आवश्यकविधिः
॥२८४॥
मिच्छामि दुक्कडं ॥ प्रतिक्रमामि गोचरचर्यायां गोवत् उत्तममध्यमजघन्यकुलानपेक्षतया अहीनतया अलुब्धतया अनाततया शुद्धभिक्षार्थ चरणं गोचरः तस्य चर्या क्रियाविधिस्तस्यां । किमर्थ गोचरचर्यायामित्यत- आह । भिक्षाचर्यायां शुद्धानपानग्रहणहेतुभूतायां नतु वृथाटाव्यायां कौतुकार्थायां वा । तत्र काभियुक्तिभिरतिचार इत्यत आह । उद्घाटितकपाटोद्धाटनया उद्घाटितः परिघशृङ्खलतालकादिभिरपिहितो यः कपाटस्तस्योद्घाटना प्रेरणं तया । तत्र अप्रतिलेखितकपाटोद्धाटनादतिचारः । श्वानवत्सदारकसंघद्दनया तेषां संघहने तत्पीडनोच्छिष्टादिदोषा भवन्ति । मण्डीप्राभृतक्या पिधानिकास्थापिताग्रपिण्डग्रहणेन बलिप्राभृतक्या देवनैवेद्यार्थहोमार्थस्थापितान्नग्रहणेन । स्थापनाप्राभृतक्या यस्यकस्यचिद्भिक्षुकस्यार्थे पृथक्स्थापितान्नस्य ग्रहणेन शङ्किते आधाकर्मादिशङ्कासहितान्नग्रहणे । सहसाकारे सहसैव दुष्टादृष्टाज्ञातपिण्डग्रहणे । अन्नेषणया निदर्दोषपिण्डगवेषणया पानैषणया प्राशुकजलग्रहणेन सातिचारेण प्राणभोजनया सूक्ष्मतरद्वीन्द्रियादिभक्तसंमिश्रभोजनेन बीजभोजनया अन्नमध्यगतसूक्ष्मबीजाहारेण हरितभोजनया सूक्ष्महरितभोजनेन पश्चात्कर्मतया भिक्षानन्तरं संचितजलादिभिः हस्तक्षालनतया पुरःकर्मतया भिक्षादानात्पूर्व संचितजलादिहस्तसंसजैनेन । अदृष्टहतया मुनेरप्रत्यक्षं समानीतया भिक्षया भित्तिपरिच्छदाद्यन्तराहृतयेत्यर्थः । दकसंसृष्टहतया जलासमानीतया रजःसंस्पृष्टतया पृथ्वीकायादिचूर्णयुक्तानीतया पारिसाटनिकया भिक्षाग्रहणे इतस्ततो | भोज्यादिपतनरूपया पारिस्थापनिकया दोषदुष्टानामन्नादीनां विधिना यतिभिर्यः परित्यागो विधीयते सा
%AA-%A5
SACARRIAAAAAAC
॥२८४॥
%*
Jain Education Inter
For Private & Personal Use Only
____www.jainelibrary.org