________________
सिलोगं वा अद्धसिलोगं वा हेउं वा पसिणं वा वागरणं वा । तुम्भेहिं चियत्तेण दिन्नं मए अविणएण पडि-3 च्छियं तस्स मिच्छामि दुक्कडं ॥ व्याख्या-उपस्थितोस्मि आगत्य स्थिरीभूतोस्मि युष्माकमन्तिके यथा कल्पो वा वस्त्रं वा प्रतिग्रहो वा । पात्रमित्यर्थः । कम्बलं वा पादपोंछनं वा रजोहरणं वा अक्षरं वा पदं वा गाथा वा श्लोको वा अर्धश्लोको वा हेतुर्वा प्रश्नो वा व्याकरणं वा युष्माभिस्त्यागित्वेन दत्तं मया अविनयेन प्रतीष्टं तस्य मिथ्या मे दुःकृतम् । अत्र गुरुवाक्यं गच्छस्स संतियं गच्छस्य शान्तिकं ॥ अथ कयाइंवि मेये किइकम्माई आयारमंतरेण विणयमंतरेण सेहिओ सेहाविओ संगहिओ वग्गहिओ सारिओ वारिओ चोइओ पडिवोइओ चियत्ता मे पडिचोयणा उवट्रिओहं सामणस्स तुज्झह तवेतेयसिरी इमाओ चाउरंतसंसारकंताराओ साहुट्ट नित्थरित्थामित्तिकट्ट० ॥ व्याख्या-कृतानि कानिचिन्मया कृतिकर्माणि वन्दनकादीनि आचारमन्तरेण विनयमन्तरेण । अन्तरेणशब्दो विनाभृतार्थः । तदा भवद्भिरहं शिक्षितः खयं सुपथमापितः शिक्षयितः अन्यैः शासितः संगृहीतः शास्त्रविधिना बोधितः अवगृहीतः आज्ञा लम्भितः विस्मृतं करणीयं स्मारितः वारितः चोदितः प्रतिचोदितः पूर्ववत् । त्यक्ता मया प्रतिचोदना उपस्थितोहं निकटीभूतः श्रामण्यस्य यतिधर्मस्य युष्माभिस्तपोभिस्तपस्तेजस्मृतैः अस्माचतुर्गतिसंसारकान्तारात् संहृत्य निर्गमिष्यामि विकृत्वा इत्यादि पूर्ववत् ।। अत्र गुरुवाक्यं-नित्थारगपारगाहोह निस्तारकपारगा भवत ॥ इति क्षामणम् ॥
Jain Education intIPE
For Private & Personal Use Only
www.jainelibrary.org