________________
आ. दि.४८
Jain Education Intern
तेषु सर्वेषु गुझ्यादिषु श्रमणधर्मपर्यन्तेषु तद्भावनात्यागैस्तदतिचारैस्तत्प्रसादैः श्रामणानां यतिसंबन्धिनां योगानां आचाराणां यद्वतादि खण्डितं भग्नं विराधितमपराद्धं तस्य मिथ्या मे दुःकृतं पूर्ववत् । श्राद्धालोचने तु असमणपावग्गोस्थाने असावगपाउग्गो इति पाठ: अश्रावकाप्रयोग्यः श्रावकस्य अयोग्यः तदनन्तरं शेषं पूर्ववत् । चउद्धं कसायाणं अनन्तरं पंचह्नं अणुवयाणं तिह्नं गुणवयाणं चउद्धं सिक्खावयाणं बारसविहस्स सावगधम्मस्स जं खंडिअं जं० । पश्चानामणुव्रतानां स्थूलप्राणातिपातमृषावाद अदत्तादान मैथुन परिग्रहवर्जनरूपाणां त्रयाणां गुणव्रतानां दिग्विरत्यनर्थदण्डत्याग भोगोपभोगमानरूपाणां चतुर्णा शिक्षाव्रतानां सामा| यिकदेशावकाशिक पौषधातिथिसंविभागरूपाणां, एवं द्वादशविधस्य श्रावकधर्मस्य यत् खण्डितमित्यादि पूर्ववत् । इत्यालोचने । ठाणे कमणे चंक्रमणे आउत्ते अणाउते हरियकाय संघट्टे बीय कायसंघट्टे थावरकायसंघट्टे छप्पईया संघट्टणाए ठाणाओ ठाणं संकामिआ सङ्घस्सवि देवसिय दुच्छिंतिय दुब्भासिय दुचिट्ठिय इच्छाका| रेण संदिसह इत्थं तस्स मिच्छामि दुक्कडं ॥ स्थाने स्थितोव भावोपवेशसंवेशादौ । क्रमणे चंक्रमणे चलने दूरगमने । आयुक्ते ईर्यासमित्यादिभिः सयत्ने । अनायुक्ते तद्विपरीते । हरितकाय संघट्टे बीजकायसंघट्टे स्थावरकायसंघट्टे । अत्र कायः प्राणिशरीरं समूहो वा । संघः संस्पर्शो विमर्दो वा । स्थावरादिपृथिव्याम्बुवनस्प तयः । षट्पदी संघट्टे षट्पदीग्रहणेन यूकामत्कुणेत्कणपिपीलिकादयः स्थानात्स्थानान्तरं संक्रामिता जीवाः | सर्वस्यापि दैवसिकस्य मनसि दुश्चिन्तितस्य वचसा दुर्भाषितस्य कायेन दुश्चेष्टितस्य इच्छाकारेण संदिसह
For Private & Personal Use Only
www.jainelibrary.org