________________
आचारदिनकरः
विभाग २ आवश्यक
विधि:
॥२७६॥
एवं योपनीयमस्ति ममेत्यर्थः । ज इति गुरुपादयोः ता इति मध्ये भे इति ललाटे एवं जावाणिज्नं च भे इति त्रय आवर्ताः । मीलने षडावर्ताः । वन्दनकद्वयोच्चारणे द्वादशे द्वादशावत वन्दनकं भवति ॥ पुनः शिष्यो ब्रूते । खामेमि खमासमणो देवसियं वइक्कम्मं । क्षमयामि क्षमाश्रमणो देवसिकं व्यतिक्रमं खापराधमिति । इति षष्ठं स्थानं ॥ अत्र च गुरुवचनं अहमवि खामेमि तुन्भे । अहमपि क्षमयामि त्वां बहुषु वन्दमानेषु । तुन्भे इति । युष्मान स्वापराधमिति । इत्युक्त्वा शिष्य उत्थाय । आवसिआए पडिकमामि खमासमणाणं देवसिआए आसायणाए तित्तीसन्नयिराए ज किवि मिच्छाए मणदुक्कडाए वयदुकडाए कायदुक्कडाए कोहाए माणाए मायाए लोभाए सबकालियाए सबमित्थोवयाराए सवधम्माए कमणाए आसायणाए जो मे अइयारो कओ तस्स खमासमणो पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि ॥ प्रतिक्रमणाहेण प्रायश्चित्तेनात्मानं शोधयितुकामोऽवग्रहान्निःसृत्येति भणति । अवश्यं कार्येषु चरणकरणेषु भवा क्रिया आवश्यकी तया हेतुभूतया आसेवनाद्वारेण यदशुभं कृतं तस्याः क्षमाश्रमणानां देवसिक्या आशातनायाः प्रतिक्रमामि निवर्ते । कथंभूताया आशातनायाः । त्रयस्त्रिंशदन्यतरायाः पूर्वोक्तत्रयस्त्रिंशदाशातनैकतमायाः यकिंचिन्मिथ्या तथा मिथ्याभावेन मनोदुःकृतया दुश्चिन्तितद्वेषरूपया वाक्दुःकृतया परुषासत्यरूपया कायदुःकृतया आसन्नस्थित्यादिकया क्रोधया मानया मायया लोभया विशेषणादित्वात् स्त्रियामादौ सर्वकालिक्या कालत्रयभूतया सर्वमिथ्योपचारया सर्वधर्मातिक्रमणया ईदृश्या आशातनया यो मया अतीचारः कृतः त
५.
॥२६॥
Jan Education inte
For Private & Personal Use Only
| www.jainelibrary.org