________________
Jain Education Int
स्मात् हे क्षमाश्रमण प्रतिक्रमामि निन्दामि गर्हे आत्मानं व्युत्सृजामि पूर्ववत् । द्वितीयवन्दनकमप्येवं । नवरं तत्र आवसियाए बहिर्निःक्रमणवर्जितं । इत्यावश्यके वन्दनकव्याख्यानं संपूर्ण ॥ ३ ॥
अथ प्रतिक्रमणं ॥ प्रतिक्रमणे ऐर्यापथिकी अतीचारालोचनं क्षामणं प्रतिक्रमणसूत्रं ॥ पूर्व ऐर्यापथिकी | यथा - इच्छाकारेण संदिस्सह भगवन् इरिआवहिअं पडिक्कमामि इच्छामि पडिक्कमि इरियावहि आए वि राहणाए भगवन् इच्छाकारेण वांछोल्लासेन संदिशत अनुजानीत ऐर्यापथिकीं प्रतिक्रमामि ऐर्यापथिक्या विराधनायाः प्रतिक्रमितुं निवर्तितुं इच्छामि अभिलषामि ईरणं ईर्यागमनं तेन युक्तः पन्था ईर्यापथः तत्र भवा ऐर्यापथिकी विराधना व्रतखण्डना तस्या ऐर्यापथिक्या विराधनायाः । गमणागमणे गमनं कार्यार्थ आगमनं तत्समाप्तौ निवर्तनं तस्मिन् गमनागमने समाहारद्वन्द्वः पाणक्क्रमणे बीयक्कमणे हरियक्कमणे । प्राणा द्वीन्द्रियास्तेषां क्रमणं, बीजानि वनस्पत्युत्पत्तिहेतूनि बीजाग्रमूलपर्वस्कन्धसंमूर्च्छनरूपाणि तेषां क्रमणं ह| रितानि नव्योत्पन्नसर्ववनस्पतयः तेषां क्रमणं तस्मिन् । क्रमणमत्रोल्लङ्घनं पीडनमाक्रमणं च ज्ञेयं । उसा उत्तिंग पणग दगमट्टी मक्कडासंताणा । संक्रमणे अवश्यायः निशि पतितं जलरूपं हिमं सूर्यकरैरशोषितं । उत्तिङ्गा भूम्यां वृत्तविवरकारिणो गर्दभाकारा जीवाः । पनकस्तद्वर्णरूपं फुल्लिसंज्ञकं सेवालं पञ्चवर्ण । दकेन जलेन मि श्रिताः मृत्तिका दकमृत्तिका पादाद्यनाहता । मर्कटसंतानानि लूताजालानि । संक्रमणे चलने । जे मे जीवा | विराहिआ। संक्रमणे ये मया जीवा विराधिता अपराद्धाः । क इत्याह । एगिंदिया बेंदिया तेंदिया चउरिं
For Private & Personal Use Only
www.jainelibrary.org