________________
आचारदिनकरः ॥ २७१ ॥
Jain Education Inte
र्षाणि मिथुनवासात्फलभूमयः इति सूचनं । सर्वेभ्यस्तेभ्यः साधुभ्यः त्रिदण्डविरतेभ्यो मनोवाक्कायदण्डमुक्तेभ्यः अहं त्रिविधेन मनोवाक्काययोगेन प्रणतः ॥ ॥ भगवत्प्रार्थना यथा-जय वीयराय जगगुरु होउ ममं तुह य भावओ भयवं । भवनिवेओ मग्गाणुसारिआ इट्ठफलसिद्धी ॥ १ ॥ लोगविरुद्धच्चाओ गुरुजणपूआ परत्थकरणं च । सुहगुरुजोगो तवयणसेवणा आभवमखंडा ॥ २ ॥ इति गाथाद्वयं ॥ जय वीतराग जगद्गुरो वीतो गतो रागो यस्यासौ वीतरागः उपलक्षणत्वाद्वीतद्वेषोपि तस्य संबोधनं । जगतां खर्गमर्त्यपाताललक्षणानां पालकत्वाच्छिक्षादातृत्वाच्च गुरुः जगद्गुरुः तस्य संबोधनं । भगवन्, तव प्रभावतो ममैवं भवतु । किमित्याह । भवनिर्वेदः संसाराद्विरक्तत्वं मार्गानुसारिता सन्मार्गे पुरस्करणं इष्टफलसिद्धिः वांछितफलप्राप्तिः । लोकविरुद्धत्यागः जनविरुद्धानां कर्मणां परित्यागः । गुरुजनपूजा गुरुजनानां मातृपितृआचार्योपाध्यायपालकमहत्तराणां पूजनं । परार्थकरणं परकार्यसाधनं । शुभगुरुयोगः हेयोपादेयार्थोपलम्भकेन गुरुणा सह योगः । तव्वयणसेवणा त्वद्वचनसेवना त्वदीयोक्तवचनाचरणं । आभवं आसंसारभ्रमणमखण्डास्तु | लोकविरुद्धान्युच्यन्ते - सङ्घस्स चेव निंदा विसेसओ तह य गुणसमिद्धाणं । उजुधम्मकरणहसणं रीढा जणपूइणिजाणं ॥ १ ॥ बहुजणविरुद्धसंगो देसादायारलंघणं चेव । उल्लणभोगो य तहा दाणाइवपयडमन्नेउ || २ || साहुबसणंमि तोसो सहसामत्थम्मि अपडिआरो य । एमाइयाइ इत्थं लोगविरुद्धाई नेयाइ ॥ ३ ॥ इत्यावश्यकाधिकारे चतुर्विंशतिस्तवः संपूर्णः ॥ २ ॥
For Private & Personal Use Only
विभागः २
आवश्यक
विधिः
॥ २७१ ॥
www.jainelibrary.org