SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter एव नतु ते खकायेन सर्वदैव विहरन्ति अतएवोच्यन्ते - सिद्धाणं बुद्धाणं पारगयाणं परंपरगयाणं लोगग्गमुवगयाणं नमो सया सवसिद्धाणं । सिद्धेभ्यो नमः सिद्धव्याख्यानं परमेष्ठिवत् । कथंभूतेभ्यः सिद्धेभ्यः । बुद्वेभ्यः बुध्यन्ते स्म परमालोकेनेति बुद्धास्तेभ्यो वुद्धेभ्यः । पुनः कथंभूतेभ्यः । पारगतेभ्यः संसारमहोदधेः पारं गच्छंतिस्मेति पारगतेभ्यः । पुनः कथंभूतेभ्यः । परंपरगतेभ्यः परं परं चतुर्दशगुणस्थानान्यतिक्रम्य गताः परं | परगतास्तेभ्यः । पुनः कथंभूतेभ्यः । लोकाग्रं मोक्षं उपगतेभ्यः । पुनः सर्वसिद्धेभ्यो नम इति कथनं सर्वग्रहणेन पञ्चदशभेदसिद्धकथनार्थं । यथा - जिण १ अजिण २ तित्थ ३ अतित्थ ४ इत्थी ५ गिहि ६ अन्न ७ सल्लिङ्ग ८ नर ९ नपुंस १० पत्तेय ११ । संबुद्धाय १२ बुद्धबोहि १३ एक्क १४ अणेक १५ ॥ १ ॥ जिनसिद्धाः जिना भूत्वा सिद्धा जिनसिद्धाः १, जिनत्वं विनापि प्राप्तकेवला ये सिद्धा गणधरमुनिप्रभृतयः ते अजिनसिद्धाः २, तीर्थे प्रवर्तमाने ये सिद्धास्ते बहवोपि ३, अतीर्थसिद्धाः तीर्थे अप्रवृत्ते व्यवच्छिन्ने वा ये सिद्धास्ते अतीर्थसिद्धा मरुदेव्यादयः ४, स्त्रीलिङ्गसिद्धा ये स्त्रीरूपेण सिद्धा ब्राह्मी सुन्दरीप्रभृतयस्ते स्त्रीसिद्धाः ५, गृहिलिङ्गसिद्धा गृहे व्रतादानं विनापि गृहिण एव सिद्धाः भरत इलापुत्रप्रभृतयः ६, अन्यलिङ्गसिद्धा ये परिव्राजकादि| विशेषैरुत्पन्न केवला जातास्तेऽन्यलिङ्गसिद्धाः ७, सलिङ्गसिद्धाः ८, नरसिद्धाः ९, नपुंसकलिङ्गसिद्धाः ये षण्ढाः मुक्तिं गतास्ते नपुंसकलिङ्गसिद्धाः १०, प्रत्येकबुद्धसिद्धाः ये एकदृष्टान्तेन प्रबोधमाप्य सिद्धास्ते करकण्डुप्रभृतयः ११, स्वयंवुद्धसिद्धाः ये गुरुं विनापि खावधानादेवोत्पन्नकेवलाः मुक्तिं गतास्ते बहवः १२, बुद्धबोधितसिद्धाः ये For Private & Personal Use Only www.jainelibrary.org
SR No.600002
Book TitleAchar Dinkar Part-2
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year1923
Total Pages534
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy