________________
आचार
दिनकरः
॥२६९॥
देवानां दानवानां नराणां इन्द्राः खामिनः तेषामेव देवादीनां गणाः समूहास्तरर्चितो देवदानवनरेन्द्रगणार्चि
विभाग:२ तस्तस्य देवदानवनरेन्द्रगणार्चितस्य ॥ ३ ॥ पुनर्जिनागममेव शार्दूलविक्रीडितवृत्तेन स्तौति-सिद्धे भो पयओ नमो जिणमए नंदी सया संयमे देवनागसुवन्नकिन्नरगणैस्सन्भूयभावच्चिए । लोगो जत्थ पइडिओ जग-15ाविधिः मिणं तेलोकमच्चासुरं धम्मो बहुउ सासओ विजयओ धम्मुत्तरं वड्डओ ॥ भो भविकलोकाः, जिनमताय नमः आर्षत्वात् चतुर्थीस्थाने सप्तमी । कथंभूताय जिनमताय । सिद्धाय । अथवा केचित् द्वितीयामाहुः । प्रयतो जिनमतं नमामि । यतो गामार्ष सर्ववेत्तत्वादृषीणां। नंदीसयासंयमे सदा निरंतरं संयमे नन्दिः समृद्धिः। कथंभूते संयमे । देवनागसुवर्णकिन्नरगणैः सद्भूतभावार्चिते देवा वैमानिकाः नागोपलक्षणेन भुवनपतयः सुवर्णाः उज्जवलवर्णत्वेन ज्योतिष्काः किन्नराः किन्नरोपलक्षणेन व्यन्तरास्तेषां गणाः समूहाः तैर्देवनागसुवर्णकिन्नरगणैः सद्भूतभावेन स्वाभाविकविशिष्टपरिणामेन अर्चितः पूजितः देवनागसुवर्णकिन्नरगणैः सद्भूतभावार्चितः तस्मिन् देवनागसुवर्णकिन्नरगणैः सद्भूतभावार्चिते । यत्र जिनमते लोको ज्ञानं उपस्थितः स्थिरीभूतः स
वस्तुज्ञातृत्वात् यत्र च जगत्रैलोक्यं मांसुरं देवनारकमय॑सहितं उपस्थितं स शाश्वतो धर्मों वर्धतां विजयते धर्मोत्तरं धर्मप्रकृष्टत्वं वर्धतां । धर्मस्य च वृधिधातोः पुनरुक्तकथनं धर्मस्य दृढत्वकरणार्थं । सुअस्स भगवओ करेमि काउसग्गं । श्रुतस्य भगवतः कायोत्सर्ग करोमि । शेषं पूर्ववत् ॥ ॥ अथ सिद्धस्तवमाह । सर्वस्तवप्रान्ते सर्वसिद्धिदायकानां सिद्धानां स्तुतिरभिधीयते । परमार्थेन जगद्वन्द्या भगवन्तोऽर्हन्तोपि सिद्धा
॥२६९॥
lan Education inte
For Private & Personal use only
www.jainelibrary.org