________________
यनम इत्यध्याहारः । वन्देशब्दे नम इति विज्ञेयश्चतुर्थीसूचनाय । प्राकृते तु चतुया षष्ठीसिद्धिः सर्वत्र । कथंभूताय श्रुताय । तमस्तिमिरपटलविध्वंसनाय तमः पातकं तदेव तिमिरं अन्धकारं तस्य पटलं समूहः तस्य विध्वंसनं छेदकरं तत्तमतिमिरपटलविध्वंसनं तस्मै । पुनः कथंभूताय । सुरगणनरिंदमहियस्स सुरगणनरेन्द्रमहिताय सुरगणा देवसमूहाः नरा मनुष्यास्तेषां इन्द्राः खामिनस्तैर्महितं पूजितं सुरगणमहेन्द्रमहितं तस्मै सुरगणनरेन्द्रमहिताय । पुनः कथंभूताय । सीमाधरस्स बंदे सीमाधराय सर्वेषामुत्तमवस्तूनां सीमां मर्यादां धरतीति सीमाधरं तस्मै आगमादत्तमं न किंचिदित्यर्थः । पुनः कथंभूताय श्रुताय । पप्फोडिअमोहजालस्स प्रस्फोटितमोहजालाय प्रस्फोटितं चूर्णीकृतं मोहजालं जडतासंचयो येन तत्प्रस्फोटितमोहजालं तस्मै प्रस्फोटितमोहजालाय । अत्रच तमस्तिमिरपटलविध्वंसनं सुरगणनरेन्द्रमहितं सीमाधरं प्रस्फोटितमोहजालं जिनागमं वन्दे इति गाथाद्वयं । अतो जिनश्रुतसारस्य स्तुतिसारस्य धर्मस्य स्तुतिव्याजेन वसन्ततिलकावृत्तेन है आगममेव स्तौति-जाईजरामरणसोगपणासणस्स कल्लाणपुक्खलविसालसुहावहस्स । कोदेवदाणवनरिंदगणचियस्स धम्मस्स सारमुवलब्भ करे पमायं ॥ सारं उपलभ्य कः प्रमादं कुर्यात् । न कोपीत्यर्थः । कथंभूतस्य धमस्य । जातिजरामरणशोकप्रणाशनस्य मोक्षदायित्वात् जातिजन्म शेषं सुगमं । पुनः कथंभूतस्य । कल्याणपुष्कलविशालसुखावहस्य कल्याणैर्मङ्गलैः पुष्कलं संख्यातीतं विशालं विस्तीर्ण सुखं आवहतीति कल्याणपुकलविशालसुखावहस्तस्य कल्याणपुष्कलविशालसुखावहस्य । पुनः कथंभूतस्य । देवदानवनरेन्द्रगणार्चितस्य |
Jan Education inte
For Private & Personal use only
www.jainelibrary.org
ना