SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ आचारदिनकरः विभागः२ आवश्यकविधिः ॥२६७॥ ऋषभः सर्वेषां केवलिनां मोक्षगामित्वेपि तस्यावसर्पिण्यादौ मोक्षगामित्वे ऋषभत्वात् ऋषभं१न जितो रागादिदोषैरिति अजितस्तमजितं २ संभवति मोक्षोपदेशाय सर्वेष्टदानाय च संभवस्तं ३ अभिनन्दयति विश्वमिति अभिनन्दनस्तं ४ शोभना मतिः सर्वजीवाभयदायिनी यस्य स सुमतिस्तं सुमतिं ५ पद्मस्येव शोणतया सुगन्धतया पङ्कपरित्यागतया प्रभा यस्यासौ पद्मप्रभस्तं ६ शोभनं गणधरसंधैः पार्श्व समीपं यस्य स सुपार्श्वस्त ७ जयतीति जिनस्तं जिनं चन्द्रस्येव प्रभा यस्यासौ चन्द्रप्रभस्तं ८ वन्दे नमस्करोमि । शोभनो विधिर्यस्यासौ सुविधिस्तं ९। कथंभूतं । पुष्पदन्तं पुष्पवदन्ता यस्यासौ पुष्पदन्तस्तं । संसारतापतप्तानां शीतत्वकरणाच्छीतलस्तं १० प्रकृष्टत्वश्रेयोमयत्वाच्छ्रेयांसस्तं ११ वसुपूज्यस्यापत्यं वासुपूज्यस्तं १२ । अत्र त्रयाणां बहुवचनस्थाने आषत्वादेकवचनं । विगतानि कर्मचितानि मलानि यस्यासौ विमलस्तं १३ सर्वैर्गुणैरनन्तत्वादनन्तस्तं १४ जिनं जयतीति जिनस्तं । दुर्गतिं प्रपततो जन्तून्धारयतीति धर्मस्तं १५ जगत्रयस्य शान्तिकरत्वाच्छान्तिस्तं १६ कुं पृथ्वी थुडति अभयदानेन रक्षतीति कुंथुस्तं १७ इयर्ति मोक्षमित्यरस्तं १८ मोहस्य प्रतिमल्लत्वात् मल्लिस्तं १९ वन्दे नमस्करोमि । मुनिश्चासौ शोभनव्रतश्च मुनिसुव्रतस्तं २० नमयति दुष्टान्तरारीनिति नमिः नमिश्चासौ जिनश्च नमिजिनस्तं २१ वन्दे नमस्करोमि । अरिष्टानामुपद्रवाणां छेदनाय नेमिः चक्रधारेवासौ अरिष्टनेमिस्तं २२ पश्यतीति पार्श्वस्तं २३ वर्धतेस्म सर्वैर्गुणैरिति वर्धमानस्तं २४ वन्देशब्दः सर्वत्राप्यन्वेति । एतेषां नाम्नां व्याख्यानं नानाविधव्युत्पत्तिभिर्नानाकथासंप्रदायैः सविस्तरं ज्ञातमपि ग्रन्थ CALCUR-4-SCRECष्ट य ॥२६७॥. Jain Education inte For Private & Personal use only | www.jainelibrary.org
SR No.600002
Book TitleAchar Dinkar Part-2
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year1923
Total Pages534
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy