________________
आ. दि.४६
Jain Education Interne
नागए काले। संपइअ वमाणा सधे तिविहेण वंदामि ॥ १ ॥ ये च अतीताः अतीतासूत्सर्पिण्यवसर्पिणीषु तीर्थ प्रवर्त्य सिद्धाः मुक्ताः ये च अनागते भविष्यति काले उत्सर्पिण्यवसर्पिणीरूपे भविष्यन्ति । संप्रति च वर्तमानाः जनैराराध्यमानतीर्था विहरमाणा वा शाश्वतप्रतिमास्थिता वा तान् सर्वान् त्रिविधेन मनोवाक्काययोगेन वन्दे नमस्करोमि । अत्र शक्रस्तवे दश विश्रामाः संपद इति कथ्यन्ते । यथा - अरिहं १ आइग २ पुरिसे ३ लोगो ४ भय ५ धम्म ६ अप्प ७ जिण ८ सङ्घा ९ । सकच्छयसंपयाणं पढमुल्लिंगणपया नेया ॥ १ ॥ इति शक्रस्वछायार्थः ॥
अथ चतुर्विंशतिस्तवो यथा - लोगस्स उज्जोयगरे धम्मतित्थयरे जिणे । अरिहंते कित्तइस्सं चडवीसंपि केवली ॥ १ ॥ चतुर्विंशतिमप्यर्हतः कीर्तयिष्ये कथयिष्ये । कथंभूतान् अर्हतः । लोकस्य चतुर्दशद्वारात्मकस्य | परमज्ञानोपदेश संशयच्छेद सर्वपदार्थप्रकटनकारित्वात् उद्योतकरास्तान् लोकस्योद्योतकरान् । पुनः कथंभूतान् । | धर्मतीर्थकरान् संसारोदधितारकत्वात् धर्माख्यं तीर्थं कुर्वन्तीति धर्मतीर्थकरास्तान्धर्मतीर्थकरान् । पुनः कथंभूतान् । जिनान् जयन्ति रागादीन् इति जिनास्तान् । केवलं ज्ञानं विद्यते येषां ते केवलिनस्तान् । तेषां कीर्तनमेवाह । —उसभमजियं च वंदे संभवमभिणंदणं च सुमई च । पउमप्पहं सुपासं जिणं च चंदप्पहं वंदे ॥ २ ॥ सुविहिं च पुष्पदंतं सीअल सिजंस वासुपुज्जं च । विमलमणतं च जिणं धम्मं संतिं च वंदामि ॥ ३ ॥ कुंथुं अरं च मल्लिं वंदे मुणिसुवयं नमिजिणं च । वंदामि रिद्वनेमिं पासं तह वद्धमाणं च ॥४॥ ऋषति मोक्षमिति
For Private & Personal Use Only
4-474
/www.jainelibrary.org