SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ आचारदिनकरः विभागः२ आवश्यकविधिः ॥२६६॥ AAAAAAA जिनेभ्यः जयन्ति रागाधरीनिति जिनास्तेभ्यः । जापकेभ्यः भक्तान रागाधरीन् जापयन्तीति जापकास्तेभ्यः । तीर्णेभ्यः तरन्ति स्म संसारोदधिमिति तीर्णास्तेभ्यः । तारकेभ्यः तारयन्ति संसारामृतानिति तारकास्तेभ्यः। बुद्धेभ्यः बुध्यन्ति स्म खयमेवेति बुद्धास्तेभ्यः। बोधकेभ्यः बोधयन्ति शुद्धोपदेशैविश्वमिति बोधकास्तेभ्यः। मुक्तेभ्यःमुच्यन्ते स्म कर्मबन्धनेभ्यश्चतुर्विधेभ्य इति मुक्तास्तेभ्यः।मोचकेभ्यः मोचयन्ति भक्तान्कर्मबन्धनेभ्य इति मोचकास्तेभ्यः। पुनः कथंभूतेभ्यः। सबन्नाणं सबदरसीणं सीवमयलमख्यमणंतमक्खयमवाबाहमपुणरावित्तिसिडिगइनामधेयं ठाणं संपत्ताणं नमो जिणाणं जियभयाणं । सर्वज्ञेभ्यः सर्व सप्ततत्वात्मकं केवलज्ञानेन जानन्तीति सर्वज्ञास्तेभ्यः । सर्वदर्शिभ्यः सर्वं द्रष्टुं दर्शनावरणाभावेन शीलमेषां ते सर्वदर्शिनस्तेभ्यः सर्वदशिभ्यः। शिवमचलमरुजमनन्तमक्षयमव्याबाधमपुनरावृत्तिसिद्धिगतिनामधेयं स्थानं संप्राप्तेभ्यः सर्वापायापगमाच्छिवं, चलनरहितत्वादचलं, भंगरोगाख्यरुजानामभावादरुज, कालादावनन्तत्वादनन्तं, प्रलयेप्यनपगामित्वादक्षयं, सर्वसंकटवर्जितत्वाव्याबाधं, अपुनर्निवर्तनादपुनरावृत्ति, प्राणिनः सर्वकर्मक्षये समीहितप्राप्ती प्राप्तत्वात् सिद्धिगतिनामधेयं स्थानं लोकान्तररूपं संप्रासेभ्यः नमो जिनेभ्यः। प्रथमाहन्नामग्रहणात् पुनर्जिनग्रहणं प्रान्ते निर्धारणार्थ । नात्र पुनरुक्तदोषः। यदुक्तमागमे-'सज्झायज्झाणतवोसहेसु उवएसथुइपयाणेसु।। संतगुणकित्तणेसु य न हुंति पुणरुत्तदोसाओ॥१॥' जितभयेभ्यः सप्तभयजेतृभ्यः । अयं तु शक्रस्तवः शक्रेणाभिहितः। अग्रतो गाथा च गीतार्थमुनिभिः प्रोक्ता कथ्यते–'जे य अईआ सिद्धा जे अ भविस्संति अ ॥२६६॥ Jan Education Inter For Private & Personal Use Only www.jainelibrary.org
SR No.600002
Book TitleAchar Dinkar Part-2
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year1923
Total Pages534
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy