SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ Jain Education Internat भव्या भव्य सर्वपदार्थदर्शकाः । पुनः कथंभूतेभ्य इत्याह । अभयदयाणं चक्खुदयाणं मग्गदयाणं सरणदयार्ण बोहदयाणं । अभयदयेभ्यः दद्याधर्मस्योपदेशाचरणाभ्यां सर्वजीवानामभयदानदातारः अभयदास्तेभ्यः । चक्षुर्देभ्यः मोहान्धानां ज्ञानात्मकं चक्षुर्ददतीति चक्षुर्दास्तेभ्यः । मार्गदेभ्यः मार्ग स्वर्गमोक्षसर्वसमीहितलाभार्थ ददतीति मार्गदास्तेभ्यः । शरणदेभ्यः भवभीतप्राणिनां रागद्वेषादिशत्रुपराभूतानां शरणं ददतीति शरणदा| स्तेभ्यः । बोधदेभ्यः बोधं ज्ञानं सम्यक्त्वप्राप्तिं वा ददतीति बोधदास्तेभ्यः । पुनः कथंभूतेभ्यः । धम्मदयाणं धम्मदेसयाणं धम्मनायगाणं धम्मसारहीणं धम्मवरचाउरंतचक्कवहीणं । धर्मदेभ्यः उपदेशप्रभावदृष्टान्तैस्तदुद्विदानेन च धर्मे ददतीति धर्मदास्तेभ्यः । धर्मदेशकेभ्यः धर्म दशविधं दिशन्तीति धर्मदेशकास्तेभ्यः । धर्मनायकेभ्यः धर्मस्य ख्यापकत्वाद्रक्षकत्वात् नायकाः खामिनस्तेभ्यः । धर्मसारथिभ्यः धर्मस्य मोक्षादिगमने रथरूपस्य सुखसंचरणहेतोः सारथ्य इव धर्मसारथयस्तेभ्यः । धर्मवरचतुरन्तचक्रवर्तिभ्यः धर्मो यो वरः प्रधानः चतुर्णा गतीनां अन्तरूपः तस्य चक्रवर्तिनः विश्वाधीशा धर्मवरचतुरन्तचक्रवर्तिनस्तेभ्यः । पुनः कथंभूतेभ्यः । अप्पडियवर नाणदंसणधराणं । अप्रतिहतवरज्ञानदर्शनघरेभ्यः अप्रतिहते ज्ञानावरणदर्शनावरणाभ्यामनाच्छादिते वरे ज्ञानदर्शने धारयन्तीति अप्रतिहतवरज्ञानदर्शनधरास्तेभ्यः । ज्ञानं केवलसंज्ञं दर्शनं सम्यक्त्वं जग दालोको वा । वियछउमाणं व्यावृत्तछद्मभ्यः । व्यावृत्तं अपगतं छद्म कैतवं ज्ञानाद्याच्छादो येभ्यस्ते व्यावृत्तछद्मानस्तेभ्यः । पुनः कथंभूतेभ्यः । जिणाणं जावयाणं तिन्नाणं तारयाणं बुद्धाणं बोहयाणं मुत्ताणं मोयगाणं । For Private & Personal Use Only www.jainelibrary.org
SR No.600002
Book TitleAchar Dinkar Part-2
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year1923
Total Pages534
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy