SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ आचारदिनकरः ॥ २६५ ॥ Jain Education Interr इत्याह । पुरिमुत्तमाणं पुरिससीहाणं पुरिसवरपुंडरियाणं पुरिसवरगंधहत्थीणं । पुरुषोत्तमेभ्यः पुरुषाणां मध्ये बलेन कान्त्या श्रुतेन ज्ञानेन प्रभावैरतिशयैश्च उत्तमाः प्रकृष्टाः पुरुषोत्तमास्तेभ्यः पुरुषोत्तमेभ्यः । पुरुषसिंहेभ्यः सिंहा इव तिर्यक्षु पुरुषेष्वसंख्यातबलभाजः पुरुषसिंहास्तेभ्यः पुरुषसिंहेभ्यः । पुरुषवरपुण्डरीकेभ्यः पुंडरीकं हि शुभ्रकमलं पङ्के संभूतं जलेन प्रवृद्धं तद्वयमपि विहायोपरि तिष्ठति तथा भगवन्तोपि संसारे समुत्पन्ना भोगैः प्रवृद्धाः तद्वयमपि विहाय लोकोत्तरं पदं प्रपन्नाः पुरुषवरपुण्डरीकाः तेभ्यः पुरिसवरपुण्ड| रीकेभ्यः । पुरुषवरगन्धहस्तिभ्यः पुरुषेषु वराः प्रधानाः बलेन महिमसमुच्चयेन सर्वोत्कृष्टतया परमभावगोप| नेन परबलविनाशनेन गन्धहस्तिन इव तेभ्यः पुरुषवरगन्धहस्तिभ्यः । पुनः कथंभूतेभ्य इत्याह । लोगुत्तमाणं लोगनाहाणं लोगहियाणं लोगपवाणं लोगपज्जोयगराणं । लोकोत्तमेभ्यः लोकेषु चतुर्दशरज्वात्मकेषु सुरनरतिर्यग्दैत्यसंकुलेषु सर्वपूज्यत्वेन प्रभावातिशयेन उत्तमाः प्रकृष्टा लोकोत्तमास्तेभ्यः लोकोत्तमेभ्यः । लोकनाथेभ्य: लोकस्य चतुर्दशरज्वात्मकस्य शासकत्वेन रक्षकत्वेन प्रीणकत्वेन मार्गनिवेशकत्वेन नाथाः स्वामिनः लोकनाथास्तेभ्यः लोकनाथेभ्यः । लोकहितेभ्यः लोकस्य रक्षकत्वेन सन्मार्गनिवेशकत्वेन हिता आप्ताः लोकहितास्तेभ्यः । लोकप्रदीपेभ्यः लोकस्य सदसद्वस्तुतत्त्वप्रकाशकत्वेन दीपाः लोकप्रदीपास्तेभ्यः । लोकप्रद्योतक| रेभ्यः लोकस्य मोहान्धकारनिर्मग्नस्य भावप्रभावप्रकाशकत्वेन प्रद्योतं कुर्वन्तीति लोकप्रद्योतकरास्तेभ्यः । अत्र प्रदीपप्रद्योतकरयोः किंवान्तरमित्युच्यते । दीपाः प्रस्तुतमितवस्तुप्रकाशकाः । प्रद्योतकरास्तु दिनकरोदयवत् For Private & Personal Use Only विभागः २ आवश्यक विधिः ॥ २६५ ॥ www.jainelibrary.org
SR No.600002
Book TitleAchar Dinkar Part-2
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year1923
Total Pages534
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy