________________
4%9++
G
परं पञ्चाहदाद्यधिकारियुक्तोऽयं मन्त्रः पञ्चहेतुभिः स्मृतिपथमानीयते । यथा-'मग्गेअविप्पणासो आयारे विणययासहाउत्ति । पंचविहनमुक्कारं करेमि एएहिं हेऊहिं ॥१॥' पञ्च दृष्टान्ताश्चास्मिन् । यथा-'इहलोगंमि तिदंडी १ सादिवं २ मातुलिंगवणमेव ३ । परलोइचंडपिंगल ४ हुंडिअजक्खो ५ अ दिटुंता ॥१॥' अत्राचारशास्त्रे विधिक्रम एव कथनीयः । कथानकानि महागमटीकाभ्योऽवसेयानि । अत्र विधिक्रम एव वक्तव्यः।-'पुण सामाइयदंडे सावद्यसामाइअस्स दंडमि । परमिट्टिनवपएसुपए पए संपयानेआ॥१॥' इत्यावश्यकविधौ सामायिककथनम् ॥ | अथ चतुर्विंशतिस्तव उच्यते । चतुर्विंशतिस्तवकथने शक्रस्तवअर्हचैत्यस्तवचतुर्विंशतिस्तवश्रुतस्तवसिद्धस्त-18 वसर्वचैत्यस्तवभगवत्प्रार्थनानां प्रक्रमाः। प्रथमं शक्रस्तवो यथा-नमोत्थु णं । णं इति वाक्यालंकारे । नमोस्तुर नमस्कारोस्तु। पञ्चाङ्गोऽष्टाङ्गो दण्डवत्प्रणामो वास्तु।केभ्य इत्याह । अहंताणं भगवंताणं । अर्हन्ति चतुष्षष्टिसुरासुरेन्द्रकृतां पूजामित्यर्हन्तः तेभ्यः केचित् अरुहन्यः अरहझ्यः इति पठन्ति । न रुहन्ति संसारपङ्क इत्यरुहन्तः। अथवा न रहन्ति न त्यजन्ति तत्वं इत्यरहन्तः । कथंभूतेभ्यः । भगवयः ज्ञानमाहात्म्ययशोवैराग्यमुक्तिवीर्यश्रीधमैश्वर्यवय इत्यर्थः । पुनः कथंभूतेभ्य इत्याह । आइगराणं तित्थगराणं सयंसंबुद्धाणं । आदिकरेभ्यः स्वस्वतीर्थेषु धर्मागमगणधरसंघादीनां प्रथमारम्भकारिभ्य इत्यर्थः । तीर्थकरेभ्यः तीर्थ चतुर्विधः संघः प्रथमगणधरो वा तत्कर्तृभ्यः । खयं संबुद्धेभ्यः अन्यस्माद्दरोरुपदेशं विनापि खात्मावबोधप्रबुद्धेभ्यः । पुनः कथंभूतेभ्य
ARCANC
ARREARRRRRRRRRRA
Jain Education in
For Private & Personal Use Only
www.jainelibrary.org