________________
आचारदिनकरः
।। २५९ ॥
Jain Education Internat
11
कारुभोजनतः शुद्धिर्दशानशनतो ध्रुवम् । क्षत्रियश्चैव शूद्रान्नं भुक्त्वा प्रायेण शुद्ध्यति ॥ ३९ ॥ वैश्यस्तु शूद्रकार्वन्नं भुक्त्वा चाम्लेन शुद्ध्यति । शूद्रश्च कारुकान्नादः शुद्धः पूर्वाहृतो भवेत् ॥ ४० ॥ म्लेच्छस्पृष्टान्न भोगे च शुद्धिः स्यादुपवासतः । अन्यगोत्रे सूतकान्नं भुक्त्वा शुद्धिस्तथैव हि ॥ ४९ ॥ ब्रह्मस्त्री भ्रूणगोसाधुघातिनामन्नभोजनात्। दशोपवासतः शुद्धिं कथयन्ति पुरातनाः ।। ४२ ।। आहारमध्ये जीवानं दृष्ट्वान्नं तत्तदेव हि । भोक्तव्यमेकभक्तेन द्वितीयेहनि शुद्ध्यति ॥ ४३ ॥ एवं भोजनकाले च श्वमार्जाररजखलाः । स्पृष्ट्वा चर्मास्थ्यन्यजातीन् शुद्धिजीवाङ्गवद्भवेत् ॥ ४४ ॥ इति तपोर्हद्रव्यप्रायश्चित्तं संपूर्णम् ॥ ॥ यतिभिश्च विरोधाच्च सौहदात्पापकारिभिः । सम्बन्धिन्यादिसंभोगात्प्रमादात्साधुनिन्दनात् ॥ ४५ ॥ सत्यां विपुलशक्तौ च दीनाद्यप्रतिपालनात् । शरणागतजन्तूनां सत्यां शक्तावरक्षणात् ॥ ४६ ॥ निन्द्यकर्मकृतेश्चैव गुर्वाज्ञालङ्घनादपि । पितृमातॄणां संतापात्तीर्थमार्गनिवर्तनात् ॥ ४७ ॥ शुद्धधर्मापहासाच हास्यार्थ परकोपनात् । इत्यादिदोषात्संशुद्विर्दानादेव हि जायते ॥ ४८ ॥ तत्संपयनुसारेण व्यलीकानुमतेरपि । गुरवो विप्रसाधुभ्यो दापयन्ति तदर्पयेत् ॥ ४९ ॥ इति दानार्हद्रव्यप्रायश्चित्तं संपूर्णम् ॥ ॥ उषित्वा म्लेच्छ देशेषु म्लेच्छीभूय परिग्रहात् । म्लेच्छबन्दिनिवासाच्च प्रमादाभक्ष्यभक्षणात् ॥ ५० ॥ अपेयपानतञ्चैव म्लेच्छादिसहभोजनात् । परजातिप्रवेशाच्च | विवाहकरणादिभिः ॥ ५१ ॥ महाहत्याविरचनात्कुप्रतिग्राहिसंगमात् । कुप्रतिग्रहतः शुद्धिः स्यात्पूर्वोक्ताद्वि-शोधनात् ॥ ५२ ॥ इति विशोधनार्हद्रव्यप्रायश्चित्तम् ॥ ॥ सर्वेभ्यो द्रव्यदोषेभ्यः शुद्धिमाहुर्मनीषिणः । नृपच्छ
For Private & Personal Use Only
विभागः २ प्रायश्चि
त्ताधिकारः
।। २५९ ।।
www.jainelibrary.org