SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ %ESSAGAROO पाथसाम् । स्पर्शनाजायते शुद्धिहिणां लानमात्रतः ॥ २५ ॥ तस्माद्यतीनां मुक्तानामभ्युक्षणत एव च । एवं स्पर्शभवादोषात्लानाच्छुद्धिः प्रजायते ॥ २६ ॥ इति स्नानार्ह प्रायश्चित्तं संपूर्णम् ॥ विरुद्धाचारजादोषात्करणीयर्विशुद्ध्यति । शूद्रात्प्रतिग्रहं कृत्वा ब्राह्मणे गोप्रदानतः ॥२७॥ शुद्धिं भजेत्क्षत्रियस्तु शूद्रसेवी तथैव हि। अशास्त्रं व्यवहारं च ज्योतिषं कथयन्द्विजः ॥ २८ ॥ मासमात्रेण मौनेन शुद्धि प्राप्नोति नान्यथा । अखाध्यायकरो विप्रो मौनी पक्षाद्विशुद्ध्यति ॥ २९॥ विप्रक्षत्रियवैश्यानां त्रुटिते कण्ठसू के । पतिते वा प्रमादेन न वदेन्न क्रमं चरेत् ॥ ३०॥ परिधायान्यसूत्रं तु चरेत्पादं वदेद्वचः । त्रिरात्रं यवभोजी च जपेन्मन्त्रमघापहम् ॥ ३१॥ दैन्यमर्थिनकारं च स्वस्तुति परगहणम् । विधाय क्षत्रियः कुर्यात्रिरात्रं जिनपूजनम् ॥ ३२॥ कृतोपवासः कनकं दत्त्वा तस्माद्विशुद्ध्यति । संग्रामाद्गोग्रहादन्ययुद्धस्थानादयुद्धकृत् ४ ॥ ३३ ॥ निवृत्तः क्षत्रियः शान्तं कृत्वा दानाद्विशुद्ध्यति । युद्धे हत्वारिसैन्यं तु लानादेव विशुद्ध्यति ॥ ३४॥ इति करणीयाई द्रव्यप्रायश्चित्तं संपूर्णम् ॥ ॥ भेषजार्थ च गुर्वादिनिग्रहे परबन्धने । महत्तराभियोगे च तथा प्राणार्तिभञ्जने ॥ ३५ ॥ यद्यस्य गोत्रे नो भक्ष्यं न पेयं कापि जायते । तद्भक्षणे कृते शुद्धिरुपवासत्रयान्मता ॥३६॥ अन्यद्विजाशनं भुक्त्वा पूर्वाहाच्छुद्ध्यति द्विजः । शुद्ध्यत्येकान्नभोजी च भुक्त्वा च क्षत्रियाशनम् ॥३७॥ वैश्याशनं पुनर्भुक्त्वा शुद्धः स्यादुपवासकृत् । शूद्रानभोजनाच्छुद्धिस्तस्यानशनपश्चकात् ।। ३८॥ ज्योतिष्कं इति पाठः । Jain Education in For Private & Personal Use Only www.jainelibrary.org ANI
SR No.600002
Book TitleAchar Dinkar Part-2
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year1923
Total Pages534
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy