SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ आचारदिनकरः ।। २५८ ।। Jain Education Inter प्रजायते । तदुक्तं करणीयाई प्रायश्चित्तं विचक्षणैः ॥ १० ॥ एकभक्तै रसत्यागैः फलैकान्नादिभोजनैः । यस्माच्छुद्धिस्तदाख्यातं तपोई द्रव्यशोधनम् ॥ ११ ॥ देवादौ पुस्तकादौ च व्ययमाधाय साधुषु । यस्माच्छुद्धिस्तदाख्यातं दाना बाह्यशोधनम् ॥ १२ ॥ विशोधनामथ ब्रूमो विस्तरेण निशम्यताम् । वमनं त्र्यहमाधाय विरेकं च व्यहं वदेत् ॥ १३ ॥ वमने लङ्घनं प्राहुर्विरेके यवचर्वणम् । ततश्चैव हि सप्ताहं भूमौ निक्षिप्य चोपरि ॥ १४ ॥ ज्वलनज्वालनं कुर्यात्काष्ठैरौदुम्बरैरपि । ततः पुनश्च सप्ताहं भूमौ निक्षिप्य चोपरि ॥ १५ ॥ गावं वृषं च संयोज्य कुर्वीत हलवाहनम् । ज्वलनज्वालने चैव तथा च हलवाहने ॥ १६ ॥ कुर्याचतुर्दशाहानि मु ष्टिमात्रयवाशनम् । ततः शिरसि कूर्चे च कारयेदपि मुण्डनम् ॥ १७ ॥ सप्ताहं च ततः स्नानं पञ्चगव्येन चाचरेत् । तत्रापि गव्यक्षीरेण प्राणाधारो न चान्यथा ॥ १८ ॥ पञ्चाहं पञ्चगव्यं च त्रित्रिशुलुभिराचमेत् । विधाय मुण्डनं तस्मात्तीर्थोदकसमुच्चयैः ॥ १९ ॥ अष्टोत्तरशतेनैव घटानां लापयेच तम् । तथा शुद्धो देवगुरून्नमस्कुर्यात्समाहितः ॥ २० ॥ ततः साध्वर्चनं संघार्चनं कुर्याद्विशुद्धधीः । एवं विशोधनारूपं प्रायश्चित्तमुदीर्यते ॥ २१ ॥ चण्डालम्लेच्छभिल्लानां खराणां विड्भुजामपि । काकानां कुर्कुटानां च करभाणां शुनामपि ॥ २२ ॥ मार्जाराणां व्याघ्रसिंहतरक्षुफणिनामपि । परनीचकारुकाणां मांसास्नां चर्मणामपि ॥ २३ ॥ रक्तमेदोमज्जसां च पुरीषसूत्रयोरपि । शुक्रस्य दन्तकेशानामज्ञातानां च देहिनाम् ॥ २४ ॥ मृतपञ्चेन्द्रियाणां च तथोच्छिष्टान्न For Private & Personal Use Only विभागः २ प्रायश्चि त्ताधिकारः ॥ २५८ ॥ www.jainelibrary.org
SR No.600002
Book TitleAchar Dinkar Part-2
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year1923
Total Pages534
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy