________________
Jain Education Internat
हि शास्त्राणि प्रायश्चित्तानुगानि च । विलोक्य शुद्धये प्रोक्तः प्रायश्चित्तविधिः परः ॥ २८ ॥ व्रतभङ्गे तु सूक्ष्माणां पापानामतिचारजम् । विलोक्य शास्त्रं मुनयः प्रायश्चित्तं वितन्वते ॥ २९ ॥ जिना जानन्ति तत्त्वं च मोहात्स्वमतिगौरवात् । उक्तं हीनाधिकं तत्र मिथ्यादुः कृतमस्तु मे ॥ ३० ॥ इयत्ता नैव विहिता प्रायश्चित्तविधेः क्वचित् । यन्नोक्तमत्र तज्ज्ञेयं जिनागममहोदधेः ॥ ३१ ॥” इति प्रायश्चित्ताधिकारे प्रकीर्णप्रायश्चित्तं भावप्रायश्चित्तं च संपूर्णम् ॥
अथ स्नानार्हप्रायश्चित्तम् || सर्वपातकशुद्ध्यर्थं भावशोधनमीरितम् । अधुना तु बहिर्लेप शुद्ध्यै द्रव्यत उच्यते ॥ १ ॥ पञ्चधा स्पाइहिर्लेप आचारज्ञैरुदाहृतः । स्पर्शात् १ कृत्यात् २ भोजनाच्च ३ दुर्नयात् ४ ज्ञातिमि श्रणात् ५ ॥ २ ॥ स्पर्शाच्चण्डालशुन्यादेः कृत्याद्दुः कर्मचेष्टितात् । भोजनाद्दूषिताहाराद्दुर्नयान्निन्दनादिकात् || ३ || विमिश्रणादन्यज्ञात्या विवाहात्सहभोजनात् । एवं पञ्चविधस्यापि शोधनं कथ्यते परम् ॥ ४ ॥ यथा दशविधं भावदोषाणां शोधनं मतम् । तथा पञ्चविधं ब्रूमो द्रव्यदोषविशोधनम् ॥ ५ ॥ स्नानार्ह १ करणीया २ तपोहे ३ दानयोग्यकम् ४ । विशोधनार्ह ५ पञ्चेत्थं प्रायश्चित्तानि बाह्यतः ॥ ६ ॥ सर्ववासांसि धा वित्वा स्नात्वा नखशिखान्तकम् । आचम्य पञ्चगव्यादीन्देव स्नानोदकानि च ॥ ७ ॥ तथैव तीर्थनीराणि गुरुपादोदकानि च । यस्मात्संजायते शुद्धिस्तत्लानार्हमुदाहृतम् ॥ ८ ॥ इति स्नानार्हविधिः ॥ ॥ शान्तिकैः पौष्टिकैश्चैव तीर्थाभिगमनैरपि । गुरुदेवार्चनैश्चैव संघपूजादिकर्मभिः ॥ ९ ॥ मौनादिभिस्तथाचारैः शुद्धिर्यस्मा
For Private & Personal Use Only
www.jainelibrary.org