________________
Jain Education Internati
दिग्विरतिभञ्जनेऽप्येवमेव हि । जानन्नपि हि सर्व यो व्रतं दर्पान्निकृन्तति ॥ ८९ ॥ तस्यैव शुद्धये प्रोक्ताः प्रत्येकं द्वादशान्तिमाः । प्रायश्चित्तविधिश्चायं श्राद्धानामुपदर्शितः ॥ ९० ॥ यतिश्रावकवर्गस्य प्रायश्चित्तं विशुद्विदम् । व्यवहारजीतकल्पं यथाशोधि पदादपि ॥ ९१ ॥ पटोयं लिखितो वीक्ष्य शिष्यैः खपरहेतवे । श्रीयशोभद्रसूरीणां श्रीपृथ्वीचन्द्रसूरिभिः ॥ ९२ ॥ इति व्यवहारजीतकल्पक्रमेण यतिश्रावकप्रायश्चित्तविधिः ॥
अथ प्रकीर्णप्रायश्चित्तं भावप्रायश्चित्तं च ॥ प्रायश्चित्तविधिं चान्ययुक्त्या ब्रूमोऽथ निर्मलम् । शोधना विविधाः पापविधानस्यानुमानतः ॥ १ ॥ आवृत्त्या च प्रमादेन दर्पकल्पद्वयेन च । पापानुबन्धबद्धस्य परिणामा अनेकधा ॥ २ ॥ एकादिषु दशान्तेषु हतेषु विकलेषु च । एकादिकदशान्तं स्यात्प्रायश्चित्तं ससंख्यकम् ॥ ३ ॥ ततः परं बहूनां च विघाते चानुमानतः । प्रायश्चित्तं पिण्डितं स्यादेकमेव न चापरम् ॥ ४ ॥ एवं दृढव्रतानां च दृढदेहभृतामपि । प्रायश्चित्तं बहुतरं देयं शास्त्रानुसारतः ॥ ५ ॥ मध्येषु मध्यमं चैव जघन्येषु जघन्यकम् । आदरः शक्तियोगश्च विशेषश्चात्र कारणम् ॥ ६ ॥ गीतार्थानां तत्त्वविदां नित्यं तीव्रतपःकृताम् । प्रायश्चित्तं दशांशेन कथितं जिनपुङ्गवैः ॥ ७ ॥ श्राद्धानां तादृशानां च जानीयात्तादृगेव हि । युक्तायुक्तविभागो हि लोकेपि परिमीयते ॥८॥ किं पुनर्वीतरागस्य मते स्याद्वादसंकुले । पञ्चाचारप्रतिबद्धं प्रायश्चित्तमुदीरितम् ॥ ९ ॥ यतीनां श्रावकाणां च सूक्ष्मभेदे तदन्तरे । अथ प्रकीर्णकं किंचित्कथ्यते तद्वयोरपि ॥ १० ॥ मुनयो यदि लोचादौ पीडया स्युश्वलाशयाः । ततस्तेषां विशुद्ध्यर्थमुपवासं समादिशेत् ॥ ११ ॥ द्वाविंशतिगुणा येषु परीष
For Private & Personal Use Only
ww.jainelibrary.org