________________
आचार
दिनकरः
विभागः२ प्रायश्चिताधिकारः
-
॥२५६॥
-
tch7-2017
स्थण्डिले वा प्रमार्जिते॥७२॥कफमूत्रविडुत्सर्गे पृथिव्या अप्रमार्जिते। अप्रमार्जितवस्तूनां ग्रहणक्षेपयोरपि॥७३॥ अमार्जितकपाटानामुद्धाटनपिधानयोः । अप्रमार्जितकायस्य कचित्कण्डयने तथा ॥ ७४ ॥ अप्रमार्जितकड्यादिस्तम्भावष्टम्भनेपि च । र्यापथाप्रतिक्रमे उपध्यप्रतिलेखने ॥ ७९ ॥ एतेषु सर्वेष्वाख्यातं विरसं दोषघातनम् । परगात्रस्य संघ ज्योतिषः स्पर्शने लघु ॥७६ ॥ विनालोमपटी विस्पर्शने लघु चेष्यते । पाते च मुखवस्त्रस्य चतुःपादो विशुद्धिकृत् ॥ ७७ ॥ अप्रतिलेखिते स्थाने कृते मूत्रविसर्जने । दिवाखापे च विज्ञेयमेकान्नं शुद्धिहेतवे ।। ७८ ॥ एवं सामायिकेपि स्यात्प्रायश्चित्तं यथोचितम् । अथ श्राद्धावश्यकस्य प्रायश्चित्तमुदीयते ॥७९॥ आचार्यपृष्ट एकस्मिन्दत्ते वन्दनकेऽरसः। द्वयोः पूर्वार्धमाख्यातं त्रिषु प्रोक्तं सुभोजनम् ॥८॥ चतर्ष चोपवासश्च वन्दनस्याविधी गुरुः । कायोत्सर्गस्य पश्चाच करणे निर्मदो मतः ॥८१॥ कृते विरुद्रेमध्याहमकृते च सुभोजनम् । परेभ्यः पारिते पूर्वमपूर्णे पारिते तथा ॥ ८२॥ कामघ्नं सर्वथा त्यक्ते प्रतिक्रमणके गुरुः। आलस्येनोपविष्टश्चेत्प्रतिक्रमति कर्हिचित् ॥ ८३ ॥ तदाम्लमावश्यके च प्रायश्चित्तं गृहैषिणाम् । मतान्तरे मृषावादे जघन्य मध्यमेऽधिके ।। ८४ ॥ क्रमाच्छीतमनाहार उपवासशतं तथा । स्तेये जघन्ये निःपापमज्ञाते मध्यमे हितम् ॥ ८५ ॥ ज्ञाते ग्राह्यं तथोत्कृष्टेऽज्ञाते ग्राह्यं सुखान्वितम् । मैथुने प्रव्रजितया गृहिणो मूलमादिशेत् ॥८६॥ परसंग्रहणीभोगे नीचान्यस्त्रीरतेपि च । गुप्ते परस्त्रीभोगे च मुक्तं भवति मुक्तये ॥८॥ अज्ञाते द्वादश ग्राह्या ज्ञाते मूलं समादिशेत् । परिग्रहातिक्रमे चाज्ञानतो विदुरुत्तमम् ॥ ८८॥ दशदिक्ष
Jain Education in
IDI
For Private & Personal Use Only
www.jainelibrary.org