________________
आचार
दिनकरः
॥ २५५ ॥
Jain Education Interi
नमादिशेत् ॥ ३९ ॥ पूतं पूतमरोगं च सजलं मुनिसत्तमः । नियमे सति साधूनामप्रणामे विलम्बकः ॥ ४० ॥ गुरुद्रव्ये च वस्त्रे च द्रव्ये साधारणेपि च । उपभुक्ते तदधिकं देयं विनयपूर्वकम् ॥ ४१ ॥ देवद्रव्यजलाहारपरिभोगे कृते सति । देवकार्ये तदधिकं द्रविणं व्ययमानयेत् ॥ ४२ ॥ देवद्रव्यस्य भोगेऽन्ते मध्य उत्कृष्ट एव च । क्रमाद्विशोधनं शीतं धर्मो भद्रमुदाहरेत् ॥ ४३ ॥ जीवाम्बुशोषे ग्राह्यं स्यात्पीलिकामर्कटादिकान् । उपजिह्वादिकान्हत्वा बहून्प्रत्येकमाचरेत् ॥ ४४ ॥ आदेयं स्तोकघाते तु स्तोकं तप उदाहृतम् । एकवारमपूताम्बुपाने भद्रं विशोधनम् ॥ ४५ ॥ पात्रस्थिते पुनर्भक्तं स्थाने पानेऽप्यसंख्यके । सुन्दरं चापि भूयिष्ठं ग्राह्यं पाप| विशुद्धये ॥ ४६ ॥ मृषावादे जघन्ये तु मध्यमे परमे क्रमात् । पूर्वार्धे सजलं ग्राह्यमुत्कृष्टे सर्वदेहिनाम् ॥४७॥ प्रत्यक्षं निधिलाभादिदोषदाने गुरुस्ततः । विरसं लघु चाधाय शुध्यते श्रावकः परम् ॥ ४८ ॥ स्तेये जघन्ये पूर्वार्धं मध्यमे स्वगृहे कृते । अज्ञाते परमं कुर्याद्गृहे ज्ञाते गुरुं पुनः ॥ ४९ ॥ अन्तिमं ज्ञात उत्कृष्टे ज्ञाते कलहकर्मणि । ग्राह्यं विधाय लक्षं च मन्त्रं शुद्धमना जपेत् ॥ ५० ॥ दर्पेण सर्वचौर्येषु जघन्येष्वपि चान्तिमम् । तुर्यव्रते खदारेषु वेश्यासु नियमक्षयात् ॥ ५१ ॥ सुन्दरं परदारे च हीने ज्ञाते तथान्तिमम् । ज्ञाते लक्षं मन्त्रजापो ग्राह्ययुक्तो विधीयते ॥ ५२ ॥ उत्तमे परदारे च ज्ञाने ग्राह्यसमन्वितः । लक्षं साशीतिसाहस्रं मन्त्रजापो विधीयते ॥ ५३ ॥ ज्ञाते तत्रैव मूलं स्यादथ स्मरणतः पुनः । वेश्यासु पुण्यं भार्यायामुपवासो विशोधनम् ॥ ५४ ॥ जानतः स्वकलत्रेपि स्मरणादन्तिमं विदुः । आलापभेदतो नाय स्वस्त्रीभ्रान्तेस्तधान्तिमम् ॥ ५५ ॥
For Private & Personal Use Only
विभागः २ प्रायश्चित्ताधिकारः
।। २५५ ।।
www.jainelibrary.org