________________
आचारदिनकरः
॥ २५४ ॥
Jain Education Inte
| मिध्यादृष्टिप्रशंसने ॥ ८ ॥ पार्श्वस्थादिषु वात्सल्ये देशादेकान्नमादिशेत् । सर्वतस्तेषु मुक्तं च तथाऽसंयमघोषणे ॥ ९ ॥ देशतः प्राहुरेकान्नं सर्वतो धर्म एव च । यतिप्रवचनश्लाध्येषु प्रशस्तोपबृंहणम् ॥ १० ॥ अकृते चैव वात्सल्ये सामथ्र्येऽप्यप्रभावने । प्रत्येकं देशतो ज्ञेयं शोधनं धातुहृत्परम् ॥ ११ ॥ सर्वतश्चाकृतेष्वेषु प्रत्येकं गुरु| रिष्यते । अर्हद्विम्बाशातनायाः सामान्यकरणे गुरुः ॥ १२ ॥ ततो विशेषाद्विम्बस्य पादनिष्पूतमर्शने । धूप| पात्र कुम्पिकादिवस्त्रादिलगने लघुः ॥ १३ ॥ अविधेर्मार्जने शान्तं विलम्बो बिम्बपातने । केचिदाहुः प्रतिमाया जघन्याशाने लघुम् ॥ १४ ॥ मध्यमाशातने शीतमेकान्नं बहुशातने । अथवा चरणाचारेष्वसेजोवायुभूरुहाम् ॥ १५ ॥ स्पर्शने कारणाभावाद्यतिकर्म समादिशेत् । आगाढतापने प्राहुः पितृकालं विशुद्धये ॥ १६ ॥ गाढसंतापने धर्म सजलं तदुपद्रवे । तथा ह्यनन्तकायानां चतुर्द्वित्र्यक्षधारिणाम् ॥ १७ ॥ संघट्टे पितृकालः स्याच्चतुःपादउपद्रवे । एकस्यापि द्वीन्द्रियस्य विनाशे मुक्त इष्यते ॥ १८ ॥ द्वयोर्विनाशे द्विगुणस्त्रयाणां त्रिगुणः पुनः । यावद्वीन्द्रियघातः स्यात्तत्संख्या गुरवः स्मृताः ॥ १९ ॥ त्र्यक्षाणां चतुरक्षाणां विनाशेष्येवमादिशेत् । असंख्यानां द्वीन्द्रियाणां विनाशे स्यात्सुखद्वयम् ॥ २० ॥ सुखत्रयं त्रीन्द्रियाणां चतुरिन्द्रियदेहिनाम् । असंख्यानां विघाते स्याच्छुद्धिर्भद्रचतुष्टयात् ॥ २१ ॥ पञ्चेन्द्रियाणां संघट्टे शुद्धये स्यात्सुभोजनम् । अगाढताअपने शीतं गाढसंतापने गुरु ॥ २२ ॥ प्रमादादेकपञ्चाक्षघाते पुण्यं समादिशेत् । एवं प्रमादात्पञ्चाक्षा यावन्तः
६ प्रशल्य इति पाठः ।
For Private & Personal Use Only
विभागः २ प्रायश्चित्ताधिकारः
॥ २५४ ॥
www.jainelibrary.org